________________
सर्गः-४
पुण्डरीक-विमलभूमिधरं प्रति हर्षतः प्रचलिते प्रथमे गणनायके। हरिणवेषसुरं सह वासवः प्रहितवांस्तदुपासनहेतवे॥२२८॥ चरित्रम्.
वातव्याधूतनूतध्वजभुजनिवहरातनुत्तेव हृष्ट-स्वर्गस्त्रीवर्गगीतैरिव विहितमहामाङ्गलिक्योच्चरावा। नव्या दिव्या विमानावलिरिह विमलादि प्रति प्रस्थितस्य रेजे श्रीपुण्डरीकप्रथमगणधरस्यानुगा हर्षितेव ॥२९॥ जय स्वाभिन् ! स्वामिन्निति हरिणवेषप्रभृतिभिः सुरैः स्तोत्रव्यग्रेरनुगतपदोऽयं गणधरः। ४चचाल श्रीशत्रुजयगिरिवरं प्रत्यथ मुदा, चतुर्तानी सर्वागमवचनकर्पूरकलशः॥२३०॥
श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्ग त्यजन् यो जाड्यस्थितिरप्यभूत् प्रतिदिनं प्राप्याद्भुतप्रातिभः । ४ तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकप्रभोः श्रीश@जयदीपकस्य चरिते सर्गः तृतीयोऽभवत् ॥२३१॥
इति श्रीबाहुबलिकेवलज्ञान-भरतसाधर्मिकवात्सल्य-पुण्डरीकयात्राप्रचलनो नाम तृतीयः सर्गः। ( विहरन्-श्रीपुण्डरीक:-)
चतुर्थः सर्गः। श्रीपुण्डरीकः सॅमितोऽप्रतिमप्रतिभप्रभुः । बहूनदीक्षयद् भव्यान विबोध्य विहरन् भुवि ॥ १॥
(पोतनं पुरम्-) धनुःपञ्चशतीदेहस्ततः साधुशतैर्वृतः । प्राप पारिपुः पुग्योद्योतनं पोतनं पुरम् ॥ २॥
तस्योद्याने शुकैहसैमङ्गलालापिभिर्वते । मुनिप्रभावात् सर्वर्तुरमणीयतरूच्चये ॥३॥ 18 वातनिधूतपुष्पौषकृतचन्द्रोदयंभ्रमे । यतिस्थितिकृते चक्रुस्ते देवा रत्नशालिकम् ॥ ४॥(युग्मम् )
१ हरिणवेषो नाम 'हरिणेगमेषी'नामा देवः प्रतीयते, स च जैनसंप्रदाये प्रसिद्धः । २ आत्तं नृत्तं यया सा-ईदृशी विमानावलिः । ३ गयो-ध्वनिः । a४ पूर्वगतकोकव्याख्यावद् अस्याऽपि व्याख्या आख्येया। ५ पञ्चभिः समितिभिः समितः। ६ अप्रतिमा-अनुपमेया । ७ पापशत्रुः। ८ सर्व-ऋतु-रमणीयः 18 तरूणाम् उच्चयो यत्र । ९ चन्द्रोदयः-भाषायाम् चन्दरखो-इति ख्यातः ।
॥९८॥
0000000000000000000000000000000000000000000000
noontownsooriwoodoo0000000000
Jain Educato International
For Private & Personal use only
w
ollainelibrary.org