SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अन्तरकरणे च वर्तमानः सम्यक्त्वश्रुतसामायिके समकालमेव कश्चिदतिशुद्धत्वाद्देशविरतिमपरस्त्वतिविशुद्धतरत्वात्सर्वविरतिं तत्समकालमेव प्रतिपद्यत इति प्रथमौपशमिकसम्यक्त्वलाभकालेऽवस्थितपरिणामस्यानाकारोपयोगिनोऽपि चत्वार्यपि सामायिकानि सम्भवन्तीति न कश्चिद्विरोधः। अथ कोऽयमुपशमसम्यग्दृष्टिरित्याह-'ऊसरदेसे त्यादि गाथा अतिप्रसिद्धत्वान्न वित्रियन्ते, भवत्वेवम्भूत उपशमसम्यग्दृष्टिः, अवस्थितपरिणामता तु कथमस्येत्याह-जं मिच्छस्से'त्यादिगाथा (३३६-२०), अस्या व्याख्या-यद्-यस्मात्कारणान्मिथ्यात्वस्यानुदयोऽतो न हीयते तस्य परिणामोऽन्तरकरणे वर्तमा-| नस्य, हानिकारणमिथ्यात्वपुञ्जस्यानुदयाद्, वर्धतां तहीति चेदित्याह-यद्-यस्मात् तत्र वर्तमानस्य यद्दर्शनमोहलक्षणं सत्कर्म तदुपशान्तमतो न परिणामस्य वृद्धिरपि, अनिवृत्तिकरणे हि वर्तमानस्य मिथ्यात्वस्योपशमार्थ प्रतिक्षणमासीत् तस्य परिणामवृद्धिः, अन्तरकरणे तु प्रविष्टस्योपशमनीयाभावाद्दाह्याभावे वह्नरिव कुतस्तस्य परिणामस्य वृद्धिः?, यत एवं न हीयते नापि वर्द्धते तत्परिणामस्तन कारणेनावस्थित इति गाथार्थः। 'अन्यथे'त्यादि (३३७-१०), एतदुक्तं भवति-प्रकरणादनुवर्तमानं चतुर्विधमपीह सामायिक सम्बध्यते, अन्यथा-यदि तत्सम्बन्धो नाभिप्रेतः स्यात्तदा सामान्येन नारकादयोऽपि द्वे त्रीणि वा सामायिकानि लभन्त एवेति किमर्थ 'उक्कोसजहन्नं वजिऊणे'त्यादि विशेषतो मनुष्यग्रहणगर्भमुत्तरार्द्ध कुर्यात् , सामान्यजीवाश्रितावगाहनाविचार एव हि कृतः स्याद्, विशेषतो मनुष्याश्रयावगाहनां विचारयति चेत्तस्मात्प्रकृतसामायिकचतुष्टयसम्बन्ध एवाभिप्रेत इति निश्चेतव्यम् । 'मतिश्रुतज्ञानलाभचिन्तायामित्यादि (३३८-७), अयमत्र भावार्थः-पूर्व ज्ञानपञ्चकविचारे मतिश्रुतज्ञानयोः शुद्धास्वेव तिसृषु लेश्यासु लाभ उक्तः इदानीं तु 'सम्मत्तसुअं RAKAASAKACAKC Jain Education Collona For Privale & Personal use only naw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy