SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आव० हारिक टीप्पणं सामाधिकलाभ: ॥४७॥ त सबासु लहइत्ति अनेन लेश्याषद्वेऽपि तल्लाभ उच्यते इति कथं न पूर्वापरविरोध इति, अत्रोत्तरमाह-'उच्यते'इत्यादि (३३८-८), इयमत्र भावना-इह मनुष्याणां द्रव्यलेश्यादयोऽपि प्रत्यन्तर्मुहूर्त्तमपरापरा एव भवन्त्यतस्तेषां द्रव्यतो भावतश्च विशुद्धलेश्यात्रयोदय एव सम्यक्त्वादिलाभो, देवनारकाणामपि भावतोऽपि शुद्धलेश्यात्रयोदय एव, द्रव्यतस्तु लेश्याषट्वान्यतरलेश्योदयेऽपि सम्यक्त्वादिप्राप्तिः स्यादेव, तेषां हि 'काऊ काऊ तह काऊनील' इत्यादिना आगमेन या द्रव्यलेश्याः प्रतिपाद्यन्ते ता आमरणान्तमवस्थिता एव न परावर्तन्ते, ननु द्रव्यलेश्या भावलेश्योपष्टम्भकत्रीं भवति, ततश्चाधः सप्तमपृथ्वीनारकादीनां संक्लिष्टकृष्णलेश्याधुदये सदावस्थिते सति कुतो विशुद्धभावलेश्यासम्भव इति चेद्, उच्यते, तेषां हि गिरिसरिदुपलघोलनवैचित्र्यन्यायात् केनचिच्छुभोदयेन सत्यपि कृष्णलेश्याधुदये शुक्लाद्यन्यतरविशुद्धलेश्याद्रव्याण्याक्षिप्यन्ते तैः शुक्लाद्यन्यतरभावलेश्या नारकादेरपि जन्यते, तानि च शुक्लाद्यन्यतरलेश्याद्रव्याणि प्राप्य न कृष्णादि लेश्या सर्वथा स्वरूपं परित्यज्य तद्रूपतया परिणमति किन्तु तदाकारमात्रं तत्प्रतिबिम्बमात्रं वा स्वीकुरुते, यथा हि दूरटू व्यवस्थिते जपाकुसुमे रक्तप्रभारूपमाकारमानं दर्पणे सङ्कामति, तस्मिन्नेवात्यन्तसविधीभूते स्पष्टं तत्प्रतिबिम्बमादर्श सङ्का मति, न चासौ सर्वस्वरूपपरित्यागेन जपाकुसुमरूपो जात इति वक्तुं शक्यते, तद्वदिहापि जीवस्य शुद्धाध्यवसायाकृष्टेषु शुक्लाद्यन्यतरलेश्याद्रव्येषु प्रथमं मन्दानुभावेषु कृष्णादिलेश्या तत्सम्बन्ध्याकारमात्रं प्रतिपद्यते पुनस्तेष्वेव प्रकर्ष गच्छत्सु तत्प्रतिबिम्बमङ्गीकरोति तदनुरूपानुभावमात्र प्रतिपद्यते येन सम्यक्त्वादिलाभघातेऽसमर्था भवति न पुनः सर्वथा तद्रूपतां स्वीकरोति दर्पणवदिति भावः, ननु कुष्णादिद्रव्यलेश्योदये सति किमन्यलेश्याद्रव्याण्याक्षिष्यन्ते येनेत्थमुच्यते?, सत्यमेवे सा॥४७॥ -- Jan Education For Private & Personal Use Only jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy