SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ तत् , तदाह-'उक्तं चे'त्यादि (३३८-१०), अत्र च कृष्णलेश्यायां 'उस्सकइ वा' इतीयानेव पाठो भवति यत्पुनः 'क्वचिद् । अवसक्का वा' इत्येतदपि दृश्यते तदशुद्धमेव, यत इह मध्यमाश्चतस्रो लेश्या उत्तरपूर्वलेश्यासङ्गमे सति यथाक्रममुत्सर्पन्ति |अवसर्पन्ति च, आद्यायास्तूत्तरोत्तरापेक्षयोत्सर्पणं स्याद् अवसर्पणं तु तदधस्ताल्लेश्याभावादेव न भवति, चरमायास्त्वव. सर्पणमेव नोत्सर्पणं, तदुपरिलेश्याभावादिति, तस्मात्स्थितमेतत्-पूर्व भावलेश्यापेक्षया विशुद्धलेश्यात्रये तल्लाभ उक्तः इदानी है त्ववस्थितद्रव्यलेश्यापेक्षयेति । 'किं तदिति तत्र सामायिकजातिमात्रमित्यादि (३४१-१), एतदुक्तं भवति-पूर्व सामायिकजातिमात्रस्वरूपमेव परेण जिज्ञासितमतः किं सामायिकमिति सामान्यप्रश्ने प्रवृत्ते तत्राचार्येणोक्तं 'आया खलु सामइअं पच्चक्खायंतओ भवइ आया' विषयस्तु सामायिकस्य तत्र परेण न पृष्टः केवलं विषयिण्यपि परेण जिज्ञासिते विषयविषयिणोरभेदं चेतसि व्यवस्थाप्योत्तरार्द्धनोक्तो विषय आचार्येण-'तं खलु पच्चक्खाणं आवाए सबदवाणं ति, तथा 'पढमम्मि सबजीवा' इत्यादिना च, तस्मात्सामायिकमेव पूर्व ज्ञेयभावेनोक्तं न विषयः तस्य परेणाजिज्ञासितत्वाद्, यत्त्वस्य पूर्वमभिधानं तद्विषयविषयिणोरभेदेन सामायिकस्यैव स्वरूपाभिधानमितिभावनीयं, इह पुनः सामायिकस्यैव विषयाभिधानमिति सम्बन्धः, केन ?-ज्ञेयभावेन, केषु विषयभूतेषु सामायिक भवतीति विषयस्यैव परेण पृष्टत्वान्मुख्यतया तत्परिज्ञानभावेन पूर्व तु गौणभावेनेति तात्पर्यार्थः । 'इह णेयभावओभिहियंत्ति ( ३४१-२), इह केष्विति द्वारे सामायिकमभिहितं ज्ञेयभावेन विषयस्येति द्रष्टव्यं, पाठान्तरं वाऽत्र दृश्यते 'इह नेयभावओऽभिहिउ'त्ति तत्राप्ययमेवार्थः-इह मुख्य-| तया ज्ञेयभावेन विषयोऽभिहितः पूर्व तु किं सामायिकमित्येवं परेण पृष्टत्वात्सामायिकमेव ज्ञेयभावेनोक्तं विषयस्तु विषयिणः | Jain Educatio n al For Privale & Personal use only Baluw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy