________________
आव०
हारि०
टीप्पण
॥४८॥
सामायिकादभिन्न इति मत्वा परेणाजिज्ञासितोऽपि तत्रोक्त इति न ज्ञेयभावेनोक्त इति व्यपदिश्यतेऽत्र तु तथा व्यपदिश्यत | सामाधिएव परेण जिज्ञासितस्योक्तरित्यलं प्रसङ्गेन । 'करचोल्लए'त्ति ( ३४१-१९), करः-अवश्यं देयः चोल्लको देशीवचनत्वा- कलाभ: भोजनवाचकस्ततश्च कररूपश्चोल्लकः करचोल्लकः । 'दवाइजहोवायाणुरूवपडिवत्तिया नीइ'त्ति ( ३४७-२), द्रव्यादिष्वित्यादिशब्दारक्षेत्रकालभावपरिग्रहस्तेषु द्रव्यादिषु इदं द्रव्यं-वस्त्रादि इत्थं ग्राह्यं अनयोः क्षेत्रकालयोरित्थमुत्सगर्गेणापवादेन वा धर्मकथा कार्या ग्लानादिभावयुक्तस्य चेत्थमुपचरणीयमित्यादिरूपो योऽयमुपायो यथोपायं तस्यानुरूपा प्रतिपत्तिः-परिज्ञानं तस्यां-द्रव्यादियथोपायानुरूपप्रतिपत्तौ वर्तितुं शीलं यस्य तस्य भावः सत्ता सा नीतिरुच्यते । 'करणं सहणं चे'त्यादि (३४७-३), गाथार्द्ध, करणं तपसि सहनं चोपसर्गेष्विति यथासङ्ख्यमत्र सम्बन्धः, कस्यां ? दुग्पदि एष व्यवसायः, एतदुक्तं भवति-दुर्गापत्पतितस्यापि दृढधृतितया यत्तपसः करणं-विधानं उपसर्गाणां चाक्षोभ्यतया यत्स-| हनं स व्यवसाय उच्यते ॥ 'श्रुते च अवाप्यत' इति ( ३४७-८), आनन्दकामदेवाभ्यां श्रीमन्महावीरसमीपे सविस्तरं धर्म श्रुत्वा सामायिकमवाप्तमित्यर्थः । 'यथाऽङ्गऋषिणे'ति ( ३४७-१०), अस्य च कथानकं 'चंपाए कोसिअजंगरिसी रुद्दए अ आणत्ती' त्यादिना योगसङ्ग्रहेषूपरिष्टावक्ष्यते । 'एस पुन वेअरणी'त्यादि (३४८-२), कालिंजरो नाम जनपदाधिष्ठितपर्वतस्तस्य वर्त्तिन्यां-मार्गे गङ्गाविन्ध्यपर्वतयोर्मध्य उत्पत्स्यत इत्यर्थः । 'कहियं जह एगा देवी'त्यादि ॥४८॥ (३५०-८), युष्मदन्तःपुरे विद्यते काचिदेवंविधाऽकार्यकारिणी राज्ञी परं रात्री सान्धकारप्रदेशे दृष्टत्वान्न तां सम्यगुपलक्षयामीति राज्ञे कथितमित्यर्थः। 'सोवि चोरो'इत्यादि ( ३५१-३), भूमौ लुठन् कथमपि तस्याः स्पर्श ज्ञातवानित्यर्थः।
Jain Education in
For Privale & Personal use only
www.jainelibrary.org