SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ यमत्र भावार्थ इति । जानन निष्कास्यमानत्वा यानि स्थानानि निरी 'भयपुरोत्ति ( ३५२-५) ऋद्धिर्भूता पूर्व यस्य स तथेति सापेक्षस्य समासः, पूर्वमसावपीश्वर आसीदिति मत्वा लोकस्तस्मै स्निग्धभिक्षादिकं ददाति । 'मा अण्णस्स खण'मित्यादि (३५२-११) त्वद्व्यतिरिक्तान्यदत्ता भिक्षा मया ग्रहीतव्येत्येवम्भूतः क्षणो-नियमो न त्वया ग्राह्यो, मदीयैव भिक्षा ग्राह्या नान्यस्येति भावः। 'लद्धा सुईत्ति ( ३५३-२) लब्धः सद्बोध इत्यर्थः । 'ताहे सो चोरिय'मित्यादि ( ३५४-१), केनोपायेन निष्कासित इति चेद्, उच्यते, तया कुट्टिन्या स प्रोक्त इदं गृहमभ्यन्तरतो गोमयादिना सज्यते त्वमभ्यन्तरापवरकाहिस्तात्पट्टशालायां भव, ततोऽपि भूमिप्रमार्जनादिव्याजेन परतः क्षिप्तस्ततोऽपि परतस्तावद् यावत्खडिकिकाया बहिः प्रक्षिप्य दास्याऽभिहितोऽसौ-किमद्याप्यत्र तिष्ठसि निष्कासितस्त्वं, गच्छ यथेप्सितप्रदेशमित्ययमत्र भावार्थ इति । 'ताओ न तरंति धरिति (३५४-१०) यद्यपि है प्ररूढस्नेहतया ताश्चतस्रो वध्वस्तं धर्तुमिच्छन्ति तथापि लब्धप्रतिष्ठश्वश्रूजनेन निष्कास्यमानत्वान्न शक्नुवन्ति धर्तुमिति भावः । 'सबवेयालिउ'त्ति ( ३५५-६) सर्वाण्येव वेलाकूलान्युपलक्षणत्वादन्यानि चावस्थानयोग्यानि स्थानानि निरीक्षितानि । 'बालाणि'त्ति ( ३५६-१२) दुहिता पुत्रश्च बालत्वे वर्तमानत्वान्नाद्यापि परिणयनमनुभवत इति भावः। 'ओहाडिउत्ति ( ३५८-७) वस्त्रादिना आच्छादित इत्यर्थ । 'वंससिहरे अड़े कट्टमित्यादि (३६०-४), वंश-12 शिखरे तिर्यकाष्ठं व्यवस्थाप्यते तस्य काष्ठस्योभयपार्श्वयोद्धे २ कीलिके व्यवस्थाप्येते, तत्रेयं स्थापना- ॥1॥ ततश्च इलापुत्रः पादुके चरणयोः परिदधाति, ते च पादुके मध्यतलप्रदेशे एकैकच्छिद्रयुक्ते, ततोऽसौ खड्गखेटकव्यग्रहस्तस्तियकृतकाष्ठमध्यप्रदेशे स्थित्वा आकाशतलमुत्नुत्य सप्ताग्रतोमुखानि सप्त पश्चान्मुखानि प्रस्तावात्करणानि दत्त्वा ते । आ. ९ Jain Ethication For Private & Personal use only X w.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy