SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥४९॥ कीलिके वारं २ पादुकानालिकायामिति-पादुकाच्छिद्रयोः प्रवेशितवानित्यर्थः । 'अभ्युत्थाने सती'त्यादि (३६१-१), सामाधिअत्र हेतुमाह-'विनीतोऽयमित्यादि, यदा ह्यसौ साधूनामभ्युत्थानं-अभिमुखोत्थानलक्षणं करोति तदा विनीतोऽय- कलामः |मिति निश्चित्य साधवस्तस्मै धर्म कथयन्ति तत्कथनाच्चान्यतरसामायिकलाभोऽस्योपपद्यते, ननु च विनयोऽत्र पृथगुपात्त एव अभ्युत्थानमपि च विनयरूपं तत्किमस्य पार्थक्येनोपन्यासः' इति, सत्यं, किन्त्वभ्युत्थानस्य प्रधानविनयाङ्गताख्यापनार्थ भेदेनोपन्यास इति न दोषः । 'देशविरतिप्रतिपत्तिपरिणामस्त्वि'त्यादि (३६१-९), अयमत्राशयः-सर्वविरतेः सर्वसावद्ययोगविरतिलक्षणैकरूपत्वाद् झगित्येवैकसमयेनापि भवति कश्चित्प्रतिपत्त्यारम्भो, देशविरतेस्त्वनेकरूपत्वाद् यावत्पर्यालोचयति केन रूपेणासौ मया प्रतिपत्तव्या तावदसौ परिणामोऽन्तर्मुहर्तेन निष्पद्यतेऽत उक्त-देशविरतिप्रतिपत्तिपरिणामस्त्वान्तर्मुहूर्तिक एव, हेतुमाह-नियमिता-नियता एव काचिद् द्वीन्द्रियवधादिनिवृत्तिलक्षणा या प्राणातिपातादिनिवृत्तिस्तद्रूपत्वाद्देशविरतेः, युक्तिमात्रं चैतत् तत्त्वं पुनः केवलिनो विदन्तीति । 'तित्थयरपवयणे'त्यादिगाथा (३६२-८), अत्र प्रवचनशब्देन तदनन्यरूपत्वात्सङ्घो विवक्षितः, श्रुतं तु द्वादशाङ्गं आचार्यो वैरस्वाम्यादिः गणधरस्तु गौतमादिः महर्द्धिकस्तु सामान्यसाधुरपि य आमोषध्यादिलब्धियुक्त इति, शेषं सुगमम् । 'शोभनमसन'मित्यादि। (३६४-२०), कर्मणो जीवात्सकाशाद्यः क्षेपः स समास इति सम्बन्धः, कया ?-उपशमविवेकसंवरलक्षणपदत्रयप्रतिपत्ति- ॥४९॥ वृत्त्या, समासे हि 'दमदंते मेयजे' इत्यादिगाथायां चिलातीपुत्र उदाहरणं भविष्यति स चोपशमादिपदत्रयप्रतिपत्तिवृत्त्या स्वकर्मप्रत्यासं करिष्यतीत्येवमुपन्यास इति । 'एएण रजं आयतंति (३६६-१३) एष एव राज्यक्षमो न मत्पुत्रो Jain Education For Privale & Personal use only www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy