________________
बालत्वादिति भावः । 'देवोवि मेत'मित्यादि (३६८-३), तेन देवेन मेतार्यप्रतिबोधनार्थ स मातङ्गोऽधिष्ठितः सन् रोदितुमारब्धः, 'खड्डाए छूढो'इत्यादि ( ३६८-५) मातङ्गगतयां प्रक्षिप्य तं मेतार्य स्वकीयं रूपं प्रदर्श्य देवोऽभिहितवान्-भो मेतार्य! पूर्व तावदनेकधा प्रतिबोध्यमानो न प्रतिबुद्धस्त्वं, साम्प्रतं गर्ताप्रक्षिप्तः 'किह'त्ति कथं करिष्यसीति कथय, 'सो भणती'त्यादि (३६८-६) ततः स मेतार्यस्तस्य देवस्य स्वरूपं ज्ञात्वा तमेवोक्तवान्-मातङ्गसुतोऽयमिति जनमध्ये ममावर्णवादः समभूद् एतस्माच्चावर्णवादान्मां मोचय ततश्च द्वादश वर्षाणि गृहवासं परिपाल्य प्रव्रज्यां ग्रहीष्यामि ततश्च देवो वदति-'किं करोमी'त्यादि, शेष सुगमम् । 'अभओ भणती'त्यादि ( ३६८-९), तं पशुमशुचिं व्युत्सृजन्तं दृष्ट्वा अभयकुमार उक्तवान्-अयं पशुस्त्वद्गृहे रत्नानि मुञ्चति नात्रेति देवानुभाव एवायं, किन्तु तथापि परीक्ष्यते, किहत्ति कथं परीक्षणीय इत्याह-भणितोऽसौ मातङ्ग इति शेषः॥'तस्स एगाए वायाए'इत्यादि (३६८-१६), तेन हि सुवर्णकारेण गृहमानुषाण्यभिहितानि-अस्मै साधवे भिक्षां प्रयच्छत, तैश्च कुतश्चित्कारणान्न तस्यैकेनैव वचनेन भिक्षा साधवे दत्ता, ततश्चासौ सुवर्णकारः स्वयमेवोत्थाय भिक्षादानार्थ गृहमध्येऽतिगतः-प्रविष्टः। 'पहाणो दंडो'इत्यादि (३६९-१४), स दत्तः प्रधानो दण्डः-सामन्तोऽभूत्, कुलपुत्रकशब्देनेहाम्नायायातशेषसामन्तामात्यादयोऽभिधीयन्ते, ततश्चासौ तान् भेदयित्वा अग्रेतनराजानं निष्कास्य स्वयं राजा समभूत् ॥ सम्यग्वादः समाप्तः॥ 'नामगं साहित्ते'त्यादि (३७१-२),
सोऽहं चिलातीपुत्रो यद्यस्ति भवतां शक्तिस्तर्हि रक्षणीयं सुसुमादिवस्तुजातमित्येवं स्वनाम कथयित्वा धनः सपुत्र आधनर्षितः, अयं च चिलातीपुत्रः सहस्राराख्याष्टमदेवलोके समुत्पन्न इति चूर्णिणकारः। प्रत्याख्यानद्वारे 'राया भोगलोलो'
Jan Educati
onal
For Private
Personal Use Only