________________
दिलाभष्टान्ताःसूत्र गुणदोषाः
आव०
इत्यादि ( ३७३-१२) स हि राजा भोगलोलुपतया अज्ञानादिदमचिन्तयत्-यदि अक्षतो मम पुत्रो भविष्यति तर्हि हारि० बलान्मामपहस्त्य राज्यं गृहीष्यति ततो मम भोगा न भविष्यन्तीत्यवधार्य जातमात्रानपि पुत्रान् करचरणादीनवयवाँ- टीप्पणं श्छित्त्वा राज्यायोग्यान् करोति । 'कला'त्ति सौवणिकः पुष्पकारो नाम श्रेष्ठी तस्मिन्नेव नगरे परिवसति स्म, 'अमचं
पउमावईत्यादि ( अमच्चो य एगते पउमावईय भण्णइ-वृ०३७३-१३), देव्याऽमात्योऽभिहितः-कथमप्येक मत्पुत्रं राज्ञा व्यङ्ग्यमानं रक्ष ततो यथा भिक्षाभाजनं-स्थाल्यादि भिक्षाया आधारो भवत्येवं मम पुत्रो रक्षित आवयोराधारो भविष्यतीत्येतद् रहस्यगतं रक्षाम इति । अज्झवसाणं सम्मत्तं । 'आरादेसादिवदिति (३७५-१), आर् आत् एस् इत्येते आदेशा एतेषु च वर्णानां क्रमनिर्देशमात्रं विद्यते न पुनरभिधेयतया कश्चिदर्थः प्रतीयते इत्येवम्भूतं निरर्थकमभिधीयते ।
'वाकछलादीति ( ३७५-५), अत्रादिशब्दादर्थच्छलपरिग्रहः, अत्र च द्वयेऽप्युदाहरणं विवक्षया नवकम्बल इत्यायेकमदपि भवति, अत्र हि नवः कम्बलो यस्येत्येवं नवकम्बलशब्दयोरेकवचनान्तत्वे नवशब्दस्य नूतनत्वाभिधायित्वे च विवक्षिते
नवकम्बलशब्दयोर्बहुवचनान्तत्वकल्पने नवशब्दस्य सङ्ख्याभिधायित्वे च परिकल्प्यमाने वचनार्थयोरपि छलनोपपद्यते, भेदेन वा किश्चिदुदाहरणान्तरं स्वधिया वाच्यमिति । 'गोशब्दवदिति ( ३७६-८), गोशब्दो हि बहुपर्यायो बह्वर्थ इति तात्पर्य 'दिशि दृशि वाचि जले भुवि दिवि वज्रेशौ पशौ च गोशब्द' इतिवचनाद् एवं सूत्रमपि बह्वर्थशब्दयुक्तं
विधेयमिति । 'प्रतिमुखमनेकार्थाभिधायकं वा सारवदिति (३७६-१३), एतदुक्तं भवति-सारवद्विश्वतोमुखं चेति 18 विशेषणद्वयं स्वतन्त्रतया सूत्रस्य व्याख्यातं, अथवैकमेवेदं सूत्रविशेषणमित्यनेन प्रतिपादयति, ततश्चेत्थं योजना-विश्वतो
SEARNERA
॥५०॥
Jain Educatiorika
For Private & Personal use only
W
w.jainelibrary.org