________________
मुखं प्रतिमुखं प्रतिसूत्रं अनेकार्थाभिधायकं सत् सारवद्भवतीत्येकमेव विशेषणं, वाशब्दो व्याख्यान्तरसूचकः । 'निर्युक्तिस्त्वित्यादि ( ३७६ - २० ), विचारशब्देनेह चालना गृह्यते । 'धारिणीसहिओ ओलोयण'मित्यादि ( ३७८ - १७ ), अत्र भावार्थ:- धारिण्या सहितो राजा अवलोकनं - गवाक्षं गतः, तत्र धारिणी कण्ड्डा गृहीतं भिक्षामटन्तं द्रमकं ददर्श तं च दृष्ट्वा सानुकम्पा सती नदीसदृशा राजानो भवन्तीतिस्वभर्तारमभिहितवती, यथा हि नद्यस्तोयपरिपूर्ण समुद्रमेव जलेन पूरयन्ति तथा राजानोऽप्यैश्वर्य्ययुक्तसामन्तादिभ्यो द्रव्यजातं ददति न पुनरीदृग्विधरङ्केभ्य इत्युपालब्धवती । 'ताओ भत्तगं नेच्छति'त्ति ( ३७८-२३), भोक्तुं नेच्छन्तीत्यर्थः । 'नोस्कन्धो नोग्राम इतिवाक्यशेष' इति ( ३७९ - २७ ), नोस्कन्धो नोग्रामः स नैगमाद्यशुद्धनयमतेन जीवो नमस्कार इत्यर्थः ॥ तथा 'सम्यग्दर्शन साहचर्य्यादि' त्यादि ( ३८१ - २ ), न केवलं ज्ञानावरणस्य दर्शनमोहस्य च क्षयोपशमेन साध्यत इति योगो, हेतुमाह- सम्यग्दर्शनसाहचर्याज्ज्ञानस्य, एतदुक्तं भवति - यद्यपि श्रुतरूपत्वान्नमस्कारः श्रुतज्ञानान्तर्गतत्वान्मुख्यतया तदावरणक्षयोपशममेवापेक्षते तथापि दर्शनज्ञानयोः सहचारित्वाद्दर्शनमोहक्षयोपशमेनापि साध्यते, अत उक्तं- दर्शनमोहस्य च क्षयोपशमेन साध्यते इति । 'नानाजीवान् (पुनर ) ऽधिकृत्ये त्यादि ( ३८१ -२० ), उक्तमिदं केनाप्यभिसन्धिना गम्भीरवचसा वृत्तिकारेण, परं न सम्यगवगम्यते यतो नानाजीवानाश्रित्यैषा स्थितिः किमुपयोगतो लब्धितो वा १, तत्र यद्युपयोगतस्तर्हि पीठिकायां ज्ञानपञ्चकविचारे मतिश्रुतज्ञानयोर्नानाजीवानाश्रित्योपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्तिक एवोक्तो, नमस्कारस्यापि तदन्तर्गतवात्तत्कालप्रमाण एव स्याद्, अनेन त्वत्र जघन्यैवैषेत्यन्तर्मुहूर्त्तलक्षणा स्थितिरुक्ता उत्कृष्टतस्तु सर्वकालमिति कथं न
Jain Educational
For Private & Personal Use Only
*****
www.jainelibrary.org