SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं नमस्कारलाभः विरोधः?, अथ लब्धितःस्थितिरियमुक्ता तर्हि तस्याः सर्वकालभावित्वाजघन्यपदाभिधानमयुक्तं, तस्मादिहवं द्रष्टव्य-नानाजीवानाश्रित्योपयोगापेक्षया जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव लब्ध्यपेक्षया तु सर्वकालं स्थितिरिति, यदेनामेव गाथां विवृ| ण्वन्नाह चूर्णिणकारो-नाणाजीवे पडुच्च उवओगो जहन्नेण उक्कोसेण य अंतोमुहुत्तं लद्धीए सबद्ध मिति एवम्भूतेष्वपि च | स्पष्टेषु चूर्ण्यक्षरेषु केनाप्यभिप्रायेण वृत्तिकृतेत्थमुक्तमिति न ज्ञायते गम्भीराभिप्रायत्वात्तद्वचसामिति । 'अनेन चार्थान्तरेणे'त्यादि ( ३८१-२२), अनेन-नमस्कारस्य पञ्चविधत्वप्रतिपादनेन नम इति पदस्यार्थान्तरेणार्हदादिना सार्द्धमादौ सम्बन्धः आदिसम्बन्धस्तमाहेतियोगः, कया?-वस्तुस्थित्या-परमार्थेन, तत एतदुक्तं भवति-नम इति नैपातिकमेव पदमिति नास्य स्वरूपेण पञ्चप्रकारताऽस्तीत्येकस्वरूपस्यापि नमःशब्दस्य पञ्चप्रकारत्वं प्रतिपादयति चेत्तर्हि सामर्थ्यादेव निश्चीयते आत्मव्यतिरिक्तार्थान्तरभूतार्हदादिपदपञ्चकाभिसम्बन्धादेवास्य पञ्चविधत्वमिति । 'संतपयं पडिवन्ने' गाहा 'सम्मत गाहा ( ३८२), व्याख्या-मग्गणत्ति अत्रानुस्वारो लुप्तो द्रष्टव्यः क्रिया च स्वयमध्याहार्या, ततश्च नारकादिषु चतसृषु १ यद्यपि वर्तमानेषु बहुषु आदर्शेषु यथाभिप्रेत एव पाठस्तथापि सूरिदृष्टे आदर्श भविष्यति पाठोऽन्यथाविध इति सर्वमेतदुदितं, पाठश्चैवं स्यात्तत्र 'नानाजीवान् पुनरधिकृत्य जधन्यैपैवोत्कृष्टतस्तु सर्वकालमिति' परं तत्रापि चूर्णिकारस्याक्षराण्यनुसृत्य नानाजीवानाश्रित्य जघन्यकाल उपयोगापेक्ष उत्कृष्टकालश्च लब्ध्यपेक्ष इत्यर्थावबोधने न काचित् क्षतिः, नियुक्तिकारेण उपयोगस्यान्तमुंहूकालता प्रत्यपादीति 'एपैवेति वाक्येनानूदिता जघन्या, लब्धेस्तु निवेदिता पृथग, उपयोगश्चोत्कृष्टतोऽप्यन्तर्मुहर्त्तमानो नानाजीवानामविवक्षितः प्रसिद्धेरन्यत्र प्राग् बहुश उक्तत्वाद्वा, अत्र नियुक्तिकारेण जघन्योत्कृष्टविभागमन्तरैवैकजीवमाश्रित्य स्थितिरुक्ताऽन्तर्मुहूर्तलक्षणा । Jain Education in For Privale & Personal use only XMainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy