SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ मानकान्येषु नूभयाभावो, मग त्यादि (३८३ प्रपश्यते, द्रव्यप्रसादह तानि साक्षायपि प्रायो द्रव्याप्रमाऽरुचि दर्श गतिषु शेषेषु चेन्द्रियादिद्वारेषु चरमद्वारपर्यवसानेषु सत्पदं-नमस्कारलक्षणमाश्रित्य मार्गणं-प्ररूपणा कर्त्तव्येत्यर्थः, कानाश्रित्येत्याह-पूर्वप्रतिपन्नान् प्रतिपद्यमानकाँश्च, इयमत्र भावना-नरकगतौ नमस्कारस्य पूर्वप्रतिपन्ना नियमतः सन्ति प्रतिपद्यमानकास्तु भाज्याः, तिर्यग्गतौ पञ्चेन्द्रियेष्वेवमेव, विकलेन्द्रियेषु तु पूर्वप्रतिपन्नाः कदाचिद्भवन्ति न प्रतिपद्यमानकाः, एकेन्द्रियेषु तूभयाभावो, मनुष्यदेवगत्योस्तु नरकगतिवद्वाच्यमित्येवं शेषेष्वपीन्द्रियादिद्वारेषु सत्पदप्ररूपणा कार्येति गाथाद्वयार्थः । 'अनुक्तद्वारत्रये'त्यादि ( ३८२-६), अथमत्र भावार्थः-सत्पदप्ररूपणा तावनियुक्तिकृता 'गइ इंदिए अकाए' इत्यादिना पीठिकायां सविस्तरमुक्तेति नेह प्रपश्यते, द्रव्यप्रमाणादीनि तु द्वाराणि यद्यपि वृत्तिकृता तत्रैव भावितानि तथापि नियुक्तिकृता न साक्षात्तत्राभिहितानीति पूर्वमनुक्तत्वादिह तानि साक्षादभिधत्ते, अनन्तरया त्वेकयैव गाथया द्वारत्रयं प्रतिपादयिष्यते, अतस्तदनुरोधादेव द्वारत्रयसङ्ख्याभिधानं, यावता सर्वाण्यपि प्रायो द्रव्यप्रमाणादीनि द्वाराणि पूर्व । |साक्षादनुक्तत्वादिहाभिधास्यन्त इति । 'अन्यथा क्षायिके'त्यादि (३८२-१८), एक इत्यनेनात्मनोऽरुचिं दर्शयति, यतो नमस्कारो मतिश्रुतान्तर्गत इत्युक्तं मतिश्रुते क्षायोपशमिकं भावमपहाय न कदाचिद्वर्तेते, श्रेणिकादीनां तु सम्यक्त्वं चारित्रं वा यदि क्षायिकादिभावे वर्त्तते तर्हि क्षायोपशमिकज्ञानान्तर्गतनमस्कारस्य किमायातं ?, तस्मात् क्षयोपशमभावे एव नमस्कारोऽस्य मतेनेत्यवसीयते, ये त्वन्यथाऽपि वर्णयन्ति श्रेणिकादीनां ते तद्भावभावित्वमात्रतया सम्यक्त्वरूपतामप्यध्यवस्यन्ति नमस्कारस्येति अविरोधः॥'भत्तपाणं च तत्थ विभागउ'त्ति ( ३८५-२), विभागतः कस्मिंश्चित्प्रदेशे लभ्यते कस्मिंश्चिन्नेत्यर्थः । 'एत्थ अट्ट वाया वण्णेयवा'इत्यादि (३८६-२२), इह यासु प्रज्ञापकः प्रश्नं वा शकुन वा JanEdiX For Private & Personal use only Sraw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy