________________
-
--
आव० हारि० टीप्पणं
॥४६॥
मसौ शेषक्षपकेभ्यो जघन्यस्थितिबन्धको भवतीति युज्यत एव विशेषग्रहणं, भवत्वेवं तथापि समुत्पन्नकेवलज्ञानाद्यवस्थो- सामाधिन्तकृत्केवली सामान्यतः किन्न गृह्यते येन विशेषणद्वयमुपादीयते दर्शनसप्तकातिक्रान्तः क्षपक इति चेत् , सत्यं, किन्त्वति-8 कलाभ: कान्तदर्शनसप्तकक्षपकावस्थयोरेव कर्मसप्तकस्य जघन्यो बन्धःप्राप्यते नान्यत्र, तथाहि-अक्षीणदर्शनसप्तकस्य तावन्मन्दाध्यवसायत्वादेव न जघन्यबन्धसम्भवः, क्षपकावस्थोत्तीर्णस्यापि क्षीणमोहस्योत्पन्नकेवलस्य वा कर्मसप्तकबन्धस्यैवाभावान्न तज्जघन्यबन्धसम्भव इति विशेषणद्वयाददोषः। 'देशविरतिसामायिकं त्वि'त्यादि (३३६-४), एतदुक्तं भवति देवनारकयतिश्रावकाश्चत्वारोऽवधिस्वामिनः, तत्राद्यत्रयस्य देशविरतिप्रतिपत्त्यसम्भव एव, श्रावकोऽप्यवधिज्ञानं प्राप्य देशविरतिं प्रतिपद्यते इत्येवं न, किन्तु पूर्वमभ्यस्तदेशविरतिगुणः पश्चादवधि प्रतिपद्यते, कुत इत्याह-देशविरतिलक्षणगुणपूर्वकत्वात्तदवाप्तेः-अवध्याप्तेरित्यर्थः, अन्ये त्वन्यथाऽप्यत्र व्याचक्षते, तत्त्वं तु केवलिनो विदन्तीति । 'प्रवर्द्धमानपरिणामेत्यादि ( ३३६-१७), अयमत्र भावार्थः-यथा 'सबाओलद्धीओ सागारोवओगे'त्यादिक आगमः तथा 'उवओगदुगम्मि चउरो पडिवजे इत्ययमप्यागम एव अतः परस्परप्रतिस्पर्द्धिसैद्धान्तिकवचसां विषयव्यवस्था न्याय्या, सा चेय-याः सम्यक्त्वं लब्ध्वा मिथ्यात्वं गतानां पुनरपि कुतश्चिच्छुभोदयात्प्रतिक्षणं वर्द्धमानाध्यवसायवतां सम्यक्त्वचारित्रादिलब्धयो भवन्ति ताः साकारोपयोगोपयुक्तस्य द्रष्टव्याः, यास्तु प्रथमसम्यक्त्वलाभकालेऽन्तरकरणप्रविष्टस्यावस्थिताध्यवसायस्य सम्यक्त्वादि
॥४६॥ लब्धयो भवन्ति ता अनाकारोपयोगेऽपि भवन्ति न कश्चिद्दोषो, न चैता अनाकारोपयोग एव भवन्तीति नियमो विज्ञेयः, उपयोगद्वयेऽप्यतासां संभवात्, केवलमनाकारोपयोगे यदा भवन्ति तदा 'उवओगदुगम्मी'त्यादि सूत्रं चरितार्थ भवति,8
Jain Education
a
l
For Private
Personal Use Only
R
v
.jainelibrary.org