________________
द इति (३३३-६), सामान्यतो न विशेषतः प्रतिक्षणं सर्वभावानामपचीयमानत्वादिति । 'पविध'इत्यादि (३३३-१४), न चात्र दुष्षमदुष्षमायामत्यन्तक्लिष्टत्वाद्विलवासिषु सामायिकाभाव आशंकनीयो, यतः प्रज्ञप्त्यामप्युक्तं-उस्सन्नं धम्मसन्नपरिवज्जिय'त्ति उसन्नमिति प्रायोग्रहणेन ज्ञायते सम्यक्त्वमात्रप्रतिपत्ता कश्चिद्भवत्यपि । 'द्विविधस्य दर्शनचारि-13 त्रसामायिकस्य शैलेशी'इत्यादि (३३४-१६), ननु यथाऽस्य तथा सिद्धस्यापि पूर्वप्रतिपत्तिमङ्गीकृत्य सम्यक्त्वसा-16 मायिक विद्यते तत् किमिति सिद्धस्य चतुर्णामपि निषेधः ?, सत्यं, किन्तु सम्यक्त्ववर्जसामायिकत्रयं संसारस्थानामेव सम्भवति तत्साहचर्यात्सम्यक्त्वसामायिकमपि संसारिणां सम्बन्धि विचार्यते, तथाभूतं तु सिद्धे नास्तीति निषिध्यत इति न दोषः। 'जघन्यस्थितिकर्मबन्धकत्वादिति ( ३३५-१३), एतदुक्तं भवति-येन केनचिन्यायेनेह लध्वी स्थितिर्लभ्यते तथा गृह्यते, ततश्च यद्यपि कश्चित्क्षपकादिः शुभाध्यवसायतः सत्कर्मस्थिति लघु करोति तथापि तत्कालबन्धस्थित्य|पेक्षया सत्कर्मस्थितिबृहत्तरैव भवति, अतो जघन्यपदे विचार्ये बन्धस्थितिर्गृह्यते न तूपात्तसत्कर्मस्थितिरिति भावः, ननु तथाप्यन्तकृत्केवली यो भविष्यतीति किमिति स एवेह गृहीत इति चेद्, उच्यते, अयं ह्येकहेलयैव समस्तकर्मक्षयं कृत्वा झगित्येव मोक्षलक्ष्मी प्राप्स्यतीति शेषक्षपकेभ्यो विशुद्धाध्यवसायत्वादतिलघुतरस्थितिबन्धक इति विशेषतो गृह्यते, नन्वनिवृत्तिबादरादारभ्य सर्वेऽपि क्षपकास्तुल्यपरिणामा इत्यागमः ततो व्यर्थ विशेषग्रहणमिति चेत् , सत्यं, किन्त्वस्त्यपूर्वकरणे क्षपकाणामपि परस्परं विशेषोऽसङ्ख्येयलोकाकाशप्रमाणाध्यवसायस्थाननिष्पन्नत्वात्तस्य, अत एवोक्तं 'दर्शनसप्तकातिक्रान्त' इति दर्शनसप्तकातिक्रान्तो ह्यपूर्वकरणादारभ्य प्राप्यते, अपूर्वकरणे च याः काश्चित्कर्मप्रकृतयो बन्धे व्यवच्छिद्यन्ते तासा
Jain Education ca
n al
For Privale & Personal use only
(Colww.jainelibrary.org