SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं XEXEYCL ॥४५॥ भावात् षदिक्सम्बन्धस्यैव परमाणोरभिधानाद् ‘एगपएसोगाढं सत्तपएसा य से फुसणा' इति वचनाद्, यदि हि परमाणो- सामाधिविदिक्सम्बन्धः स्यात्तदा एकादशप्रदेशैव स्पर्शना स्यात् न सप्तप्रदेशेति भावः, तस्मान्न पञ्चभिः प्रदेशैदिग्दशकस्योन्मीलना कलाभः भवति, नवभिरपि न भवति, ये ह्यपरे दिक्षु चत्वारः परमाणवो व्यवस्थाप्यन्ते तैः पुनरपि दिश एवोत्तिष्ठन्ति न विदिशः|| कोणानामन्तर्निविष्टत्वाद् अतो विदिगुन्मीलनार्थमपरेऽपि चत्वारः कोणेषु व्यवस्थाप्यन्ते इति दशदिक्प्रभवं क्षेत्रं त्रयोदशभिः खाणुभिर्भवतीति न हीनाधिकैरिति स्थापना ( ३३१ ) परमार्थतश्चेतस्येवावधारणीया, वृत्तिकृता तु तदुपदर्शनबद्धाग्रहशिष्यावबोधार्थमेवासौ दर्शिता यथावदस्या दर्शयितुमशक्यत्वाद् अभ्युह्या वा प्राज्ञैरिति । 'दो चेव य होंति रुअगनिभ'त्ति (३३१-२५), रुचको नाम गोस्तनाकारो अष्टाकाशप्रदेशनिष्पन्नो यतो दिशः प्रभवन्ति तत्सदृशमूर्द्धाधोदिग्द्वयं भवतीतिभावः । 'देशविरतिसर्वविरतिसामायिकयोस्त्वि'त्यादि ( ३३२-१८) ननु चाधस्तनभूमिकायां प्रज्ञा-1 पके धर्म कथयति उपरितनभूमिकायामधस्ताद्वा व्यवस्थितः सम्भवति सर्वदेशविरत्योः कश्चित्प्रतिपत्ता, तथा तापदिग४|प्यादित्यापेक्षैव ततः सवितुरप्यू धस्तत्सम्भवो घटत एवेति किमित्येवं नियमो, नैतदेवं, यतो देशसर्षविरती विशिष्टगुण रूपे न विशिष्टविनयमन्तरेण प्राप्यते यस्तु प्रज्ञापकशिरस्यधोभागे वाऽत्यन्तसमश्रेणितया वर्तते स प्रज्ञापकावज्ञाकारित्वात्कथं तदवाप्तिभाग भवेत्?, सम्यक्त्वश्रुतसामायिकयोस्तु देवनारका प्रतिपत्तारः संभवन्ति अत्यन्तव्यवहितत्वेनाशातनाभावाद, आदित्यस्याप्यूर्वाधोदिग्द्वयेऽत्यन्तसमश्रेणिव्यवस्थितसर्वदेशविरतिप्रतिपत्रोर्मनुष्यतिरश्चोः सूक्ष्मेक्षितया विचार्यमा |॥४५॥ णयोरसम्भव एव लक्ष्यतेऽत एव प्रतिषेधादिति तावदस्माकं सम्प्रदायः, सूक्ष्मधिया त्वन्यथाऽपि भाव्यमिति । 'प्रवाहत' Jan Educat on For Private & Personal use only L aw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy