________________
हा त्रिविधनिविधत्वादिसामायिक लाभक्षेत्रादि
त्यर्थः। 'स्थूलसावयेत्यादि ( ३३०-७), त्रिविधं त्रिविधेनेति यद्भगवत्यां श्रावकस्य प्रत्याख्यानमवाचि तद्राजान्तःपुरिकाद्यासेवनकाकमांसभक्षणादिस्थूलसावद्ययोगविषयं न पुनरेकेन्द्रियसङ्घट्टनादिसूक्ष्मसावद्ययोगविषयमिति । 'जइ किंचि' गाहा ( ३३०-७), न विद्यते प्रयोजनं येन तदप्रयोजनं-बलिभुक्पिशितादि अप्राप्यं-मेरुशिरःसमुद्भूतचन्दनवृक्षादि यद्येवम्भूतं किञ्चिद्वस्तु विशेष्य-तदाश्रित्येत्यर्थः त्रिविधंत्रिविधेन प्रत्याचक्षीत श्रावको न कश्चिद्दोषः, किंवत्?-स्वयम्भूरमणाश्रयमत्स्यवद्, यथा स्वयम्भूरमणमत्स्यानां त्रिविधंत्रिविधेन प्रत्याख्याति तथा यदि मध्यमखण्डवर्तिनामप्यत्यन्ताप्रयोजनाप्राप्यवस्तूनां त्रिविधं त्रिविधेन प्रत्याचक्षीत तदा न कश्चिद्विरोध इति गाथार्थः । 'कर्मवेदक'इति ( ३३०-१३), एतावता ह्यशेन कृतसामायिकः श्रावकोऽपि श्रमणवदुच्यते यतोऽसावपि तस्यामवस्थायां यथा श्रमणस्तथा प्रभूतकर्मवे. दको भवतीति । 'क्षेत्रनियमं त्वि'त्यादि (३३१-१०), एतदुक्तं भवति-'विरई मणुस्स लोए' इति ब्रुवता विरतिर्मनुष्यलोक एव भवतीति क्षेत्रनियमः कृतः, सर्ववाक्यानां सावधारणत्वाद्, अयं तु न युज्यते, यतो यदि देवापहारादितो मनुष्यलोकादर्द्धतृतीयद्वीपसमुद्रलक्षणाद् बहिनिर्गतस्य नन्दीश्वरादिशाश्वतप्रतिमादिदर्शनाद्विरतिलाभः स्यात् तदा किं झूयते येन मनुष्यलोकेन तल्लाभं नियमतीत्यभिप्रायवतोक्तं 'विशिष्टश्रुतविदो विदन्तीति । 'तत्रैकैकः प्रदेशो विदिक्ष्वि'त्यादि (३३१-१८), नन्वत्र यतो द्रव्याद् दशानां दिशां प्रभव उन्मीलितो भवति तद्रव्यं दिक्त्वेन विवक्षितं, तच्च त्रयोदशभिरेव प्रदेशैर्भवति न हीनाधिकरित्यत्र का युक्तिरिति, उच्यते, इह मध्ये तावदेकः परमाणुरवस्थाप्यते, तं च यदा अपरे चत्वारः परमाणवो वेष्टयन्ति तदा षण्णां दिशामेवोन्मीलना भवति न विदिशां, एकस्मात्परमाणोर्विदिगुत्थाना
Jain Educa
t
ional
For Private & Personal Use Only
Tww.jainelibrary.org