________________
आव० हारि० टीप्पणं
अनुयोगपार्थक्य
॥४३॥
गकरणे विशेषतः सविस्तरं कारणमाह-सविसयेत्यादि गाथाद्वयं ( ३०८-१४ ), अस्य व्याख्या-इह शिष्यास्त्रिविधाः- केचित्तुच्छमतयोऽपरिणतजिनवचनरहस्या अपरिणामाः, परे त्वेकान्तक्रियाप्रतिपादकाोकनयमतवासितान्तःकरणा उत्सर्गमोहितचेतसोऽतिपरिणामाः, अन्ये तु मध्यस्थवृत्तयः परिणतजिनवचसः परिणामा इत्यभिधीयन्ते, तत्र ये अपरिणामास्ते नयानां यः स्वः स्व आत्मीयो विषयो ज्ञानमेव श्रेय इत्यादिस्तमश्रद्दधानाः, ये त्वतिपरिणामास्तेऽपि यदेवैकेन नयेन ज्ञानं प्रधानं मुत्यङ्गं क्रिया वेत्यादि किञ्चिदुक्तं तदेव तन्मात्रं प्रमाणतया गृह्णन्त एकान्तनित्यानित्यवस्तुप्रतिपादकनयानां परस्परं विरोधं मन्वाना मिथ्यात्वं मा गमन् , येऽपि परिणामा उक्तस्वरूपास्ते यद्यपि मिथ्यात्वं न गच्छन्ति तथापि विस्तरेण नयैर्व्याख्यायमानैर्ये सूक्ष्मविचारादयो बहवो भेदा भवन्ति तान् ग्रहीतुमशक्ता भवेयुरिति मत्वा आर्यरक्षितसूरिभिः ततः कालिके इत्युपलक्षणत्वात् सर्वस्मिन्नपि श्रुते नयविभागो-विस्तरव्याख्यारूपो न कृतः, ततः प्रभृति निरुद्ध इत्यर्थः, इति गाथाद्वयार्थः ॥'न स्कन्धवद् बद्ध मिति ( ३११-१५), यथाऽणुस्कन्धो निविडपरिणतिरूपतयाऽन्योऽन्याविभागेन बद्धो नैवं कर्मेत्यर्थः । ननु बोटिका अपि निह्नवा एव तत्किमिति 'बहुरयपएसे'त्यादिगाथायां बहुरतजमालीत्यादिगाथाद्धये च तदुपन्यासो न कृतः ?, विशेषणार्थखलुशब्दसूचितत्वेन प्राग्व्याख्याता एवेति चेत् , नैवं, बहुरतादिवत् साक्षाकस्मान्नोपोत्ताः?, सत्यं, किन्तु ये द्रव्यलिङ्गादिना किश्चित्सादृश्यं बिभ्रति त एवेहोपादेयत्वेनाभिमताः, ये तु द्रव्यलिङ्ग- तोऽपि भिन्ना अतीव विसंवादिनो बोटिकास्ते भिन्नद्रव्यलिङ्गा मिथ्यादृष्टयो भेदेनेवाग्रे वक्ष्यन्ते, यद्येवं निह्नवप्रभवनगरप्रतिपादकद्वारगाथायां किमिति तन्नगरोपन्यास इत्याशङ्याह-वक्ष्यमाणभिन्नद्रव्ये'त्यादि (३१२-६), यदि पुनरिह
४३॥
Jain Education
For Private & Personal Use Only
XMainalibrary.org