________________
तन्नगराद्युपन्यासो न स्यात् तदा तद्वक्तव्यतावसरे द्वारगाथान्तरं कर्त्तव्यं स्याद् , अथैवं ब्रूयात् कृतेऽप्यत्र तन्नगराधुपन्यासे रहवीरपुरं नगरं दीवगमुजाण मित्यादिगाथास्तद्वक्तव्यतावसरे वक्ष्यन्त एव तत्किमत्र लाघवमिति?, यद्येवं बहुरतादिनगराणामपीहोपन्यासोऽनर्थकस्तद्वक्तव्यतावसरेष्वपि सविस्तरं तन्नगरादेर्वक्ष्यमाणत्वाद्, विशेषविवरणं वक्ष्यमाणमिति चेद् अत्रापि तत्समानमित्यलं प्रपञ्चेन । 'महातवोतीरप्पभ' इत्यादि ( ३१८-२), राजगृहाबहिर्वैभारगिरेर्निकट-14 वत्तीं पञ्चधनुःशतायामविस्तरजलाशयाभिधानविशेषोऽयमिति भावः । 'दृष्टान्तोऽपि न साधनधर्मे त्यादि (३२२-२)जीवात्कर्म न वियुज्यते इत्यादी प्रयोगे जीवस्य स्वकीयदेशा दृष्टान्त्वेनोपन्यस्तास्तेषु च यत्त्वया साधनत्वेनोपन्यस्तमन्योऽ-10 न्याविभागेन युतत्वं-मीलनं परस्परं बन्ध इतियावत् तन्न सिद्धं, न हि ते जीवाद्भेदेन व्यवस्थिताः सन्तोऽन्यतः कुतश्चि | दागत्यान्योऽन्याविभागेन सम्बध्यन्ते, कुत इत्याह-ताद्रूप्येण-एकत्र पिण्डीभूतत्वेन अनादिसिद्धत्त्वात्तेषां, स्वप्रदेशवत् जीवात्काप्यभिन्नं भविष्यतीत्याह-'भिन्नं चेत्यादि ( ३२२-३) । यदशनादि निह्नवनिमित्तं कृतं तत्परित्यागे परिभोगे वा भाज्यमितिव्याख्याद्वयेनोक्तं, कथम्भूतं पुनस्तदशनादीति दर्शयति-तत्र भाज्यं मूल'इत्यादि (३२५-२७), अयं च गाथावयवः पक्षद्वयेऽपि समान इति व्याख्याद्वयं कृत्वा पश्चाद्विवृतः॥ समाप्ता निवाः ॥'चतुर्थस्य चे'त्यादि ( ३२७-१५), रूपाणि-पुत्तलिकादीन्यजीवानि रूपसहगतानि तु-सचेतनख्यादीनि अथवा निर्भूषणानि-रूपाणि भूषणावृतानि तु-रूपसहगतान्यभिधीयन्ते । स एव सामायिकादिर्गुण'इत्यादि (३२७-२३ ), पर्यायास्तिकमतेन हि द्रव्यस्यावास्तवत्वात्सर्वेऽपि पदार्था गुणरूपा एवेति प्रसङ्गतः शेषपदार्था अपि सामायिकवद् गुणरूपाः सेत्स्यन्तीति सर्वार्थसाह
*KAREERASACRACTIONS
Jain Education internacional
For Privale & Personal use only
Mwww.jainelibrary.org