SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ CASSESSMS पाट्याः सङ्कलनादीनि परिकाणि तथा जविकान्यप्येतस्य दशमपूर्वस्य परिकर्मभूतानि, ततश्च जविकलक्षणपरिकर्मश्रुताध्ययनं कुरु येन दशमपूर्वाध्ययनयोग्यो भवसीत्यर्थः । 'अहिगते'ति (३०४-८), अधिगतजीवादितत्त्वा चिन्तेई'त्यादि सा श्राविका चिन्तयामास-मैवं भवतु यदुत वयमत्र नगरे ऊर्जितं-समाहात्म्यं जीवित्वा ततो 'देहबलियाए'त्ति (३०४-९.), भिक्षया वृत्तिं करिष्याम इति । 'जुयलएणं कुंडियाइ'त्ति ( ३०५-२), कुण्डिया नाम शौचार्थ करप-18 त्रिका तया युगलकेन च-अडकच्छाबन्धयोग्येनैकेनाधःपरिधानेन द्वितीयेन तु प्रावरणेन सार्द्ध प्रव्रज्यामङ्गीकरोमीत्यर्थः। 'बत्तीसं सीसेत्यादि ( ३०७-२), द्वात्रिंशन्मोदकलाभनिमित्तसूचिताः परम्परया युष्मत्सन्तानव्यवस्थापका द्वात्रिंशच्छिष्या भविष्यन्तीति भावः। 'वइदिसत्ति (३०७-१२), उज्जयिन्यां, 'सुत्तमंडलीए'त्ति (३०८-८) सूत्रपाठकयतिमण्डल्यां । 'अइसय' गाहा 'साणुग्गहो' गाहा (३०८-१४), अत्र च द्वितीयगाथायां क्रिया, विष्वक्-पृथग अकार्षीदार्यरक्षित इति प्रक्रमाद्गम्यते, कान् ?-अनुयोगान्-चरणकरणानुयोगादीन् केन?-'कालियसुअंच इसिभासियाई इत्यादि-IP गाथावक्ष्यमाणश्रुतविभागेन नयाँश्च-नैगमादीन् अकार्षीदिति वर्तते, कथम्भूतान् ?-सुष्छु निगृहितो-व्याख्यानिरोधेन छन्नी-8 कृतो विभागो येषां ताँस्तथाभूतान् , किमर्थ?-सुखग्रहणादिनिमित्तं, आदिशब्दाद् धारणादिपरिग्रहः, एतच्च कृतवान् कथम्भूतः?-शिष्यान् प्रति सानुग्रहः, किं कृत्वा ?-ज्ञात्वा क्षेत्रमित्यनुस्वारोऽलाक्षणिकः क्षेत्रकालानुभावं आत्मव्यतिरिक्तशेषपुरुषाँश्च मतिः-अर्थग्रहणविषया मेधा-सूत्राध्ययनविषया ताभ्यां परिहीणान् , कथम्भूतःसन्नेतज्जानातीत्याह-श्रुतातिशये 8 कृतोपयोग इति गाथाद्वयार्थः ॥ एवमनुयोगपृथकरणे नयाविभागकरणे च सामान्येनोक्तेऽपि कारणे पुनरपि नयाविभा Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy