SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Jain Educatio वृक्षवदिति, न ह्यत्र क्वचिद्वचनभेदोऽस्ति, सत्यं, स्यादेतद्- यद्येकवचनान्तपदद्वयस्यात्र समासोऽभिप्रेतः स्यात् किन्तु कुटश्च । वृक्षौ चेति समस्य वतिः क्रियत इत्यस्ति वचनभेदः, ननु भवत्वेवं तथाप्ययुक्तमिदमुदाहरणं, नह्यत्र वचनाभेदेऽपि कुटवृक्षशब्दयोः पर्यायता युज्यते भिन्नजातीयवस्तुवाचकत्वात्, तथाहि — कुटशब्देन घट उच्यते वृक्षशब्देन तु शाखादिमान्पदार्थः तत्कुतो वचनाभेदेऽप्यनयोः पर्यायशब्दता, नैवं भिन्नजातीयवस्तुवाचित्वादित्यस्यासिद्धत्वाद्, यतः कौ - पृथव्यामटतीति व्युत्पत्तेः कुटशब्देन वृक्ष एवात्र विवक्षित इत्यनयोः पर्यायशब्दता, क्वचित्तु कूटवृक्षवदिति पाठस्तत्र निर्विवादं कूटशब्देन वृक्ष एवाभिधीयत इति, अस्माकं तावदयं सम्प्रदायः, सुधिया त्वन्यथापि भाव्यमिति । 'न स्थानभरणक्रिया' मिति ( २८४ - २३), स्थानस्थस्यैव भरणक्रिया स्थानभरणक्रिया तां न विशेषयतीत्यर्थः, यदा स्थानस्थित एव जलादिना भ्रियते तदा घटो न भवति किन्तु योषिन्मस्तकारूढो जलाहरणचेष्टां कुर्वन्नेवेति भावार्थः । समाप्ता नयाः । 'तद्व्यतिरेकेणे' त्यादि ( २८५ - ७ ), सूत्रार्थोपनिबद्धवस्तुव्यतिरेकेणाप्यर्थसम्भवादित्यर्थः, न ह्यभिलाप्यवस्तूनि सर्वाण्यपि सूत्रे निबद्धानि, तदुक्तं - "पण्णवणिजा भावा अनंतभागो उ अणभिलप्पाणं । पन्नवणिज्जाणं पुण अनंतभागो सुअनिबद्धो ॥१॥" अतः सूत्रानिबद्धवस्त्वपेक्षया युक्तोऽध्याहार इति 'विस्तरेणेति विशेषयति, 'विरोधाविरोधे 'त्यादि ( २८५ - २१), नैगमस्य विशेपानभ्युपगच्छतः सङ्ग्रहेण सह विरोधः, सामान्याभ्युपगमेन त्वविरोधः, व्यवहारस्यापि ऋजुसूत्रेण सार्द्ध विशेषाभ्युपगमेऽवि| रोधोऽक्षणिकवस्त्वभ्युपगमेन तु विरोध इत्यादिको योऽसौ नयानां परस्परं विरोधाविरोधसम्भवविशेषः स आदिर्यस्य | शेषनयवक्तव्यताविस्तरस्य तेन विरोधाविरोधसंभवाविशेषादिना विस्तरेण नयानामपृथक्त्वे समवतार आसीदित्यर्थः । इतो TSXI Donal For Private & Personal Use Only *%* Keywww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy