________________
आव. हारि० टीप्पणं
नयाधिकार:
॥४१॥
SASSOCIEOCOMSANGACANCSC
तान्सतोऽपि मुश्चति व्यवहारोनयः,किं कुर्वन् ? लोक-लोकव्यवहारमिच्छन् , कया?-संव्यवहारपरतया, संव्यवहारस्वरूपत्वादेव तस्येति गाथार्थः। 'प्रति प्रति वोत्पन्नमिति (२८४-३), एकैकं स्वामिनमाश्रित्योत्सन्नं, एतदेवाह-'भिन्नव्यक्ती'त्यादि, भिन्ना व्यक्तयः-स्वामिन्यो यस्य तत्तथाभूतं, ऋजुसूत्रो हि वर्तमानक्षणभाव्येव वस्त्विच्छति तदपि भिन्नव्यक्तिस्वामिकं, तन्मतेन हि यद्देवदत्तस्य वित्तं तद् यज्ञदत्तस्यावित्तमेव, तदपेक्षया वित्तकार्याकारणाद्, यज्ञदत्तस्यापि यद्वित्तं तद्देवदत्तस्याप्यवित्तमेव तत एव हेतोः, तस्माद्वयोरपि वित्तयोभिन्नस्वाम्यपेक्षयैव वित्तत्वमिति भिन्नव्यक्तिस्वामिता ।'ऋजुसूत्रः ऋजुश्रुतो वेति ( २८४-४), शब्दद्वयस्य यथाक्रम व्युत्पत्तिमाह-तत्र ऋजु-वर्तमान'मित्यादि । 'नामस्थापनाद्रव्यविरहेण समान लिङ्गवचने'त्यादि (२८४-१०), लिङ्गं च वचनश्च लिङ्गवचने समाने लिङ्गवचने येषां ते च ते पर्यायध्वनयश्च-इन्द्रः शक्रः पुरन्दर इत्यादयस्तद्वाच्यत्वेन च, तदनेनातिक्रान्तवक्ष्यमाणनयद्वयाद्भिन्नताऽस्य सूचिता,अतिक्रान्तनयो हि नामादिचतुर्विधमपि भिन्नलिङ्गवचनपर्यायध्वनिवाच्यमेव च वस्त्विच्छति अयं तु भावरूपमेव समानलिङ्गव-|| चनपर्यायध्वनिवाच्यमेव च तदिच्छतीत्यनयोर्भेदः, वक्ष्यमाणस्त्वेकस्मिन्वस्तुन्येक एव ध्वनिः प्रवर्तते न समानलिङ्गवचना अपि बहव इत्यभिमस्यते, अतो नयद्वयादप्यस्य भिन्नता, एवमन्येष्वपि नयेषु विशेषणानि यथासम्भवं पूर्वोत्तरनयभिन्नतासूचकत्वेन द्रष्टव्यानि । 'तस्यार्थपरिग्रहादि'त्यादि ( २८४-११), तस्य-प्राधान्येनाङ्गीकृतशब्दस्य वाच्यत्वेन सम्बन्धी योऽर्थो घटादिलक्षणस्तं परिगृह्णाति, नयो-ज्ञानविशेष इत्युपचारात्सोऽपि ज्ञानस्वरूपो नयः शब्द इत्युच्यते । 'न च भिन्ने'-18 त्यादि (२८४-१२), ननु भिन्नवचनत्वादेकत्वाभावे कुटवृक्षवदित्युदाहरणमसङ्गतं कुटश्च वृक्षश्च कुटवृक्षौ ताविव कुट
॥४१॥
Jain Education inte
For Privale & Personal use only
HDapelibrary.org