SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ तयोग्यं काष्ठं वृक्षावस्थायामपि तदनुकीर्तिकं स्कन्धे कृतं गृहमानीतमित्यादि सर्वास्वप्यवस्थासु नैगमः प्रस्थकमिच्छति, ग्रामोदाहरणं यथा-विवक्षितग्रामवास्तव्यप्रधानकतिपयपुरुषदर्शनेऽपि ग्रामोऽसावितीच्छति नैगमः। “भमराइ गाहा'(२८३-२४), इह भ्रमरकोकिलादिः कृष्णतयोपलभ्यमानोऽपि निश्चयमतेन पञ्चवर्णः, शेषवर्णचतुष्टयं हि न्यग्भूतत्वात्तत्र न दृश्यते न पुनर्नास्तीति प्रतिपद्यतेऽसौ, तथा प्रज्ञप्ति:-"भमरे णं भंते !कइवण्णे कइगंधे कइरसे, कइफासे?, गोतमा६ इत्थं दो नया कजंति, तंजहा-निच्छयनए य वावहारियनए अ, वावहारिअनयरस कालए भमरे, निच्छयनयस्स पंचवण्णे 8 | दुगंधे पंचरसे अट्ठफासे इत्यादि,एवं नीललोहितपीतशुक्लतया व्यवहारतोऽवगतेष्वपि वस्तुषु निश्चयतः पञ्चवर्णताऽवगन्तव्या, तदेवं भ्रमरादौ निश्चयनयमतेन पञ्चवर्णे निश्चिते सति व्यवहारस्य को निश्चयार्थ इत्याह-'सो विणिच्छयत्थोत्ति (२८३-२५), स विनिश्चयार्थ इति ज्ञेयः, क इत्याह-यत्तदोर्नित्याभिसम्बन्धाच्छेषवर्णेषु सत्स्वपि यः कृष्णोऽयमित्या-18 है दिरूपो विनिश्चयः समुत्पद्यत इति गम्यते, 'जम्मि वा जणवयस्स अत्थे'ति,विनिश्चय इतीहापि सम्बध्यते, ततश्च यस्मिन्वा, सकस्मिंश्चिदर्थे जनपदस्य-गोपालाङ्गनादिरूपस्य नामस्थापनाद्रव्यभावानामन्यतररूपेण अतीतानागतवर्तमानान्यतररूपेण वा निश्चयः समुत्सद्यते स विनिश्चयार्थः, किमुक्तं भवतीति तात्पर्यार्थमाह-'जो गेज्झो'त्ति, अन्येषु सत्स्वपि बहुष्वशेषगोपालाङ्गनादिजनपदस्योद्भूतशक्तितया यो ग्राह्योऽशः स विनिश्चयार्थः तदर्थ व्रजति व्यवहार इति गाथार्थः। यस्मिन्नेवांशे जनप|दस्य निश्चयो भवति किमित्यसौ तमेव गमयति सतोऽपि शेषांशान्मुञ्चतीत्याह-बहुतरउत्ति य'इत्यादि, स एव बहुतरांशो यत्र जनपदस्य निश्चय उत्पद्यत इति तमेवांशं गमयति-व्यवहारपथमवतारयति,येषु त्वंशेषु लोकस्य निश्चयो न भवति COCCASRANASSCREASANCHAR Jain Educationpornational For Private & Personal Use Only X Niww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy