SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आव० हारिक टीप्पणं कारकपटू कारणता निलयनादि नानयव० ॥४०॥ जीवः सचेतन इत्युभयपदाव्याहतः, अत्राद्यौ विकल्पनियमौ तृतीय उभयानियमः चतुर्थस्तूभयनियम इति गाथार्थः । द्रव्यतो नानाता दर्शिता क्षेत्रकालभावनानातां त्वतिदिशन्नाह-'एवमेकादिप्रदेशे त्यादि (२८२-१), तत्र क्षेत्रतस्तद्रव्यनानाता-एकप्रदेशावगाढानां परस्परतो भिन्नता अन्यद्रव्यनानातात्वेकप्रदेशावगाढस्य द्विप्रदेशावगाढादिभ्यो भिन्नता कालतस्तद्र्व्यनानाता-एकसमयस्थितीनां परस्परतो भिन्नता अन्यद्रव्यनानाता त्वेकसमयस्थितिकस्य द्विसमयस्थितिकादिभ्यो भिन्नता, भावतस्तद्रव्यनानाता एकगुणकालकानां परस्परतो भिन्नता, अन्यद्रव्यनानाता त्वेकगुणकालकस्य द्विगुणकालकादिभ्यो भिन्नतेति भावनाऽत्र द्रष्टव्या। भोमसुमिणगाहा (२८२-३) भौम-भूकम्पादि स्वप्नः प्रतीतः आन्तरिक्षं-गन्धर्व नगरादि दिव्यं-व्यन्तरादिकृतमट्टहासादि आङ्ग-शिरःस्फुरणादि स्वरनिमित्तं तु 'सजं रवइ मयूरो'इत्यादिलक्षणं स्त्रीपुरुषादीनां सामुद्रिकप्रतिपादितं व्यञ्जन-मषतिलकादि, एतच्चाष्टप्रकारमपि लक्षणं भवति अनेनापि शुभाशुभस्य लक्ष्यमाण त्वादिति । 'तथा लक्षणमिद'मिति ( २८२-१३), तथाशब्दो द्रव्यलक्षणापेक्षो यथाऽनन्तरोक्तं द्रव्यलक्षणं तथा भावेPlsपि लक्षणं इदमिति, यद्वृत्तावुक्तं तथा 'भावानामौदयिकादीना'मित्यादिना, एतच्च चेतसि व्यवस्थितमिदमा व्यपदिशति नियुक्तिकृद्, अत एव च 'अहवावि भावलक्खण'मित्यत्र अथवाशब्द उपपन्नो भवति, अन्यथा हि पूर्व पक्षान्तरस्य भावलक्षणे दर्शितत्वान्निरर्थक एव स्यादिति । 'निलयनप्रस्थके'त्यादि (२८३-१०), तत्र निलयनं वसनमित्यनान्तरं, तदृष्टान्तो यथा-कश्चित्केनचित्पृष्टः क्व वसति भवान् ?, स प्राह-लोके तत्रापि जम्बूद्वीपे तत्रापि भरतक्षेत्रे तत्रापि मध्यमखण्डे तत्राप्येकस्मिन्जनपदे नगरे गृहे इत्यादीन्सर्वानपि विकल्पान्नैगम इच्छति, प्रस्थको-धान्यमानविशेषस्तदृष्टान्तो यथा ॥४०॥ 6 0- Jan Educa For Private & Personal Use Only
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy