SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नस्य घटस्य सम्प्रदान-जनपदस्तस्य जनपदलक्षणस्य सम्प्रदानस्य कर्मणा-कार्येण घटलक्षणेन करणभूतेनाभिप्रेतत्वाद्-| दित्सया व्याप्तत्वाद्, यदि नाम घटदित्सया जनपदलक्षणं सम्प्रदानं व्याप्तं तथापि कथं जनपदलक्षणस्य सम्प्रदानस्य घटं प्रति कारणता इत्याह-तं सम्प्रदानविशेषमन्तरेण तस्य घटस्याभावात् (२७८-१९), यदि हि निर्वर्त्यघटो यस्मै दातव्यः स एव जनपदादिर्न स्यात्तर्हि घटस्याकरणमेव श्रेयः, अतो घटक्रियाऽन्यथानुपपत्तेः कारणमेव सम्प्रदानं, प्रयोगश्चात्र-यो यमन्तरेण न संभवति स तस्य कारणं, यथा घटस्य मृत्पिण्डो, न च भवति कर्तृकरणकर्मसम्प्रदानापादानाधिकरणकारकषट्कान्तर्गतैकतरस्याप्यभावे घटादि कार्यजातं, तस्मात्पण्णामपि कारकाणां कार्य प्रति कारणताऽभ्युपगन्तव्या। 'मतिश्रुते त्वि'त्यादि ( २८०-२६), बाह्यलिङ्गरूपं यदिन्द्रियलक्षणं कारणं तदपेक्षणात्परोक्षत्वेन विशिष्टप्रत्ययत्वाभावान्नैतयोर्ग्रहणमिति भावः, अवध्यादीनां भवति प्रत्यक्षताऽनयोर्नेत्यत्र का युक्तिरित्याद्यत्र बहुवक्तव्यं । 'योईयोरि'त्यादि (२८१-१४), यत्र पूर्व विशेषणमुच्चार्य ततो विशेष्यमुच्चार्यते सा आनुकूल्येन गमनाद्गतिरुच्यते व्यत्ययोच्चारणे त्वागतिः एताभ्यां च जीवादिपदार्थस्वरूपं लक्ष्यते-विचार्यते इतिकृत्वा लक्षणमेते भवतः। 'रूवी घडोत्ति गाहा (२८१-२२), 'नीलोत्पलं चेति, चशब्दोऽप्यर्थे तस्य च व्यवहितः सम्बन्धः, ततश्च न केवलमिह सिद्धान्ते, लोकेऽपि विकल्पनियमादयो भङ्गाः पूर्वपदव्याहतादिस्वरूपा भणिता इति योगः, विकल्पे-एकस्मिन् पक्षे नियमो यस्य स विकल्पनियमः स आदिर्येषां उभयानियमोभयनियमानां ते तथा, तत्र रूपी घट इति पूर्वपदव्याहतः, कथमिति चेदुच्यते-घटो रूप्येव, रूपी पुनर्घटः पटो वा भवति, एवं शेषभङ्गेष्वपि भावना कार्या, चूतो द्रुम इत्युत्तरपदव्याहतः, नीलोत्पलमित्युभयपदव्याहतः, CO Jain EducationDEtional For Privale & Personal use only KIMw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy