________________
Jain Education
भावार्थ:- इह निर्गमान्तर्गतौ क्षेत्रकालौ सामान्यौ, सर्वस्यापि वस्तुनो निर्गमे विचार्येऽनयोरवतारात्, मूलद्वारगाथान्तर्गतौ च क्षेत्रकालौ प्रस्तुतसामायिकविषयत्वेन महसेनवनप्रथमपौरुषीरूपत्वाद्विशेषरूपौ विशेषे च ज्याख्याते सामान्यं व्याख्यातमेव भवतीति प्रस्तुतावपि निर्गमान्तर्गतौ क्षेत्रकाली विहाय विशेषरूपत्वान्मूलगाथाप्रतिबद्धौ व्याख्यातवान् सूरिः, तद्व्याख्याने च सामान्यरूपनिर्गमान्तर्गतक्षेत्र कालव्याख्या कृतैव भवति, एवं च लाघवसिद्धिः स्याद् अतो नाम स्थापनाद्रव्यरूपो निर्गमः पूर्व व्याख्यातः क्षेत्रकालौ तूक्तनीत्या व्याख्यातौ, अतो भावनिर्गम एवावशिष्यते, तमि दानीं व्याख्यानयति, स्यादेतद् - यथा - मूलगाथान्तर्गत क्षेत्रकालयोः प्रस्तुतसामायिकविषयत्वेन विशेषरूपता तथा निर्ग मस्यापि कस्मान्नेष्यते ?, तस्यापि तद्विषयत्वान्मूलद्वारगाथापठितत्वात् तदयुक्तं, अभिप्रायापरिज्ञानाद्, भावनिर्गम एव | ह्यत्र प्रस्तुत सामायिकविषयतयाऽभिप्रेतो द्रव्यादीनां तु तदुपकारित्वमात्रादेव निर्गमान्तर्गतता अमुख्यैव, तथा च तस्यामेव निर्गमप्रतिपादकगाथायां वृत्तिकृतोक्तम् - अत्र त्वधिकारः प्रशस्तभावनिर्गममात्रेणैव शेषैरपि निर्गमाङ्गत्वादिति, तस्मान्मुख्यतया प्रस्तुतसामायिक विषयत्वान्निर्गमान्तर्गत क्षेत्रकालयोः सामान्यरूपतैवेति यद्येवं भावनिर्गमोऽपि तर्हि नेह वक्तव्यो यतो निर्गमप्रतिपादकगाथायां भावनिर्गमो भावपुरुष एवाभिप्रेतः, तथा च तत्र वृत्तिकारेणोक्तम्-इह च क्षेत्रं महसेनवनं कालः प्रथमपौरुषीलक्षणो भावश्च भावपुरुष इति, स च भावपुरुषो 'दबाभिलावचिन्धे' इत्यादि गाथायां वक्ष्यति । 'अथवा भावेत्ति-भावनिर्गमप्ररूपणा यामधिकृताया 'मित्यादि ( २७७-१८ ), भवताऽपि चोक्तं क्षेत्र - कालपुरुषाणां निर्गमाङ्गता व्याख्यातैव, न पुनरिदं त्वयाऽप्युक्तं - क्षेत्रकालभावानां निर्गमाङ्गता प्रतिपादितैवेति, तदेवं
For Private & Personal Use Only
www.jainelibrary.org