________________
, गुरौ परितोषो जाय, एतच्च स्वयमेव सपा
१४), प्रत्युच्चारणं प्रत्यचा
कर्म विघ्नोपशान्तये अनुयोगारम्भाय कायोत्सग्र्गो यश्च व्याख्यावसाने चिन्तनिकां कारयति स इह ज्येष्ठो विवक्षितः तस्मै यद्वन्दनकं एतेषां प्रत्येकं विधिर्वक्तव्यः, आह-ननु ज्येष्ठः किं पर्यायेण उत लघुरपि व्याख्यालब्धिसम्पन्नो भाषक इह ज्येष्ठ इत्याशङ्कयाह-भाषमाण इह ज्येष्ठो न पर्यायतोऽतस्तं लघुमपि भाषकं वन्दध्वम् , एतच्च स्वयमेव सप्रपञ्चं वक्ष्यतीति गाथार्थः । 'गुरुपरितोषजातेने'ति ( २६९-८), गुरौ परितोषो जातोऽस्येति विग्रहः । 'प्रत्युच्चारकश्रवणस्येति (२६९-१४ ), प्रत्युच्चारणं प्रत्युच्चारः-चिन्तनिका तद्रूपश्रवणस्याभावादिति । 'अन्यभावादिपरिग्रह' इति(२७०-१७)एतदुक्तं भवति-यदि स्वगच्छे अन्यस्य वैयावृत्त्यकर्तुः साधोर्भावः-सत्ता भवति तदाप्यन्यत्र गच्छति, स्वगच्छे अन्येनैव साधुना वैयावृत्त्यकरणात् । तथा 'नापूरयन्नित्यादि ( २७१-१७), अपूरयन्नेव यदा वर्तते तदैव सारणा विसग्गो वा इत्येवं न इति योगः। सामाचारी समाप्ता। अथ अज्झवसाणं 'सावि तं पलोयंती'त्यादि (२७२-१४), यावदेषा निषिद्धापि न तिष्ठति तावदसौ तथैव तामुदकं प्रक्षिपन्तीं विहाय गतस्ततः सा 'ताहे पयोयत्तेति'त्ति तावत्प्रवर्तितवती भूमौ करकेणोदकमिति गम्यते यावदसौ अदृश्यो जातः, 'ओयल्ल'त्ति मृता । 'मोक्खाणासासयादोस'त्ति (२७४-१३),यदि कर्मोपक्रम्यते अप्राप्तकालमपि तर्युक्तनीत्याऽकृतागमकृतनाशौ प्राप्नुतः ततश्च मोक्षेऽप्यनाश्वासः, अकृतस्यापि सिद्धानां कर्मण आगमनप्रसङ्गात्संसारप्राप्तेः कृतनाशाच्च सर्वसंसारिणां मुक्तिप्राप्तेरितिभावः, उत्तरमाह-'नही'त्यादि, अग्निकरोगो-भस्मक व्याधिः। अन्ये तु द्वितीयभङ्ग इत्यादि (२७६-३), सिद्धानामपि चारित्राद्यभ्युपगमादिति भावः। बीयं दुतीयाईए' गाहा (२७६-७), अस्या व्याख्या-द्वितीयं तथा व्यादींस्त्यादींश्च भङ्गान् वर्जयित्वा शेषा भङ्गा यथाक्रम औदयिकऔपशमिकक्षायि
Jain Educationa
tional
For Privale & Personal use only
O
ww.jainelibrary.org