SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ मङ्गलाधि आव० हारि० कार: टीप्पणं ॥१॥ CEOCOCCORROCARROREGAORE अधिक्रियते-प्रस्तुतशास्त्रप्रणेतृत्वेन सम्बध्यत इत्यधिकृता-गणधरादिः, इत्येवं त्रिविधस्यापि देवताविशेषस्य पूर्वार्द्धन स्तुतिविधायक पश्चार्द्धन तु सम्बन्धादिप्रतिपादक श्लोकमाह-'प्रणिपत्ये' त्यादि (१-७), व्याख्या-'प्रणिपत्य नमस्कृत्य, कम् ? इत्याह-'वीर' विदारयत्यष्टप्रकारं कर्म विराजते वा सबाह्याभ्यन्तरेण तपसा 'सूर वीर विक्रान्ता' वित्यस्य । वा वीरयति-कर्मशत्रून् प्रति विक्रमत इति वीरः, तदुक्तम्-"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण | युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥" तमित्थम्भूतं, तमेव विशिनष्टि-जिनाः-क्षीणोपशान्तमोहनीयकाणश्छद्मस्थवीतरागास्तेषां वराः केवलिनस्तेषामष्टमहाप्रातिहार्येश्वर्ययोगादिन्द्रस्तं, तदनेनाभीष्टदेवतानमस्कारः कृतो भवति, अभिमतदेवतां नमस्कुर्वन्नाह-श्रुतस्याधिष्ठात्री देवता श्रुतदेवता, चशब्दस्यहोत्तरत्र च गम्यमानत्वात्तां च प्रणिपत्येति योगः, अधिकृतदेवतानमस्कारमाह-गृणन्ति जीवादितत्त्वमिति गुरवः-गौतमादयस्तान् , तथा साधयन्ति सदनुष्ठानविशेषैः परमपदमार्गमिति साधवस्तांश्च, प्रणिपत्येतीहापि सम्बध्यते, अत्र साधुग्रहणेनोपाध्यायादयोऽपि सङ्ग्रहीताः, तेषामपि साधुत्वाव्यभिचारात् , आह-ननु प्रस्तुतशास्त्रप्रणेतृत्वेन गौतमादीनामधिकृतदेवतात्वं युज्यते शेषाणां तूपाध्यायादीनां कथं 8 तद्भावः ? इति, उच्यते, तदध्येतॄणां वाचनाप्रदानसाहाय्यकर्तृत्वादिभिस्तेषामपि तद्भावाविरोधाददोषः । तदेवं कृतदेवतात्यनमस्कारः प्रयोजनाद्युपदिदर्शयिषयेदमाह-अवश्यं कर्त्तव्यमावश्यक-सामायिकादिपडध्ययनकलापस्तस्य विवरणं १ बाबु चुनीलालपन्नालालवितीर्णद्रव्यसाहाय्येन आगमोदयसमित्या मुद्रितस्य हारिभद्रीयावश्यकस्य पत्राण्यत्र ज्ञेयानि, अत्र प्रथमोऽङ्कः पत्रस्य, द्वितीयस्तु पतेः, वृत्तिपाठोऽपि यो भिन्नः सोऽत्रैव दर्शितः । CRICARRORICA Jan Education For Private Personal Use Only
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy