________________
॥ अहम् ॥ श्रेष्ठि-देवचन्द्र लालभाइ जैनपुस्तकोद्धार-ग्रन्थाङ्के
श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिसूत्रितं, हारिभद्रीयावश्यकवृत्तिटीप्पणकम्.
SACREASAGAR
जगत्रयमतिक्रम्य, स्थिता यस्य पदत्रयी । विष्णोरिव तमानम्य, श्रीमदाद्यजिनेश्वरम् ॥१॥ शेषानपि नमस्कृत्य, जिनानजितपूर्वकान् । श्रीमतो वर्द्धमानान्तान् , मुक्तिशर्माविधायिनः॥२॥
समुपासितगुरुजनतः समधिगतं किञ्चिदात्मसंस्मृतये । सङ्के पादावश्यकविषयं टिप्पनमहं वच्मि ॥३॥ इह हि शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्त्तमाना विघ्नविनायकोपशान्तये अभीष्टदेवतादिनमस्कारपुरस्सरं प्रेक्षावतां प्रवृत्तये सम्बन्धाभिधेयप्रयोजनकथनपूर्वकं च प्रवर्तन्ते, अयमपि भगवान् वृत्तिकारः शिष्टसङ्घाताग्रणीरित्यनेनापि तत्समाचारः परिपालनीयो, नमस्कारोचितश्च देवताविशेषस्त्रिधा-अभीष्टाभिमताधिकृतभेदात् , तत्राभियुक्तैः सर्वैरेव मुमुक्षुभिरि
ज्यते-पूज्यत इत्यभीष्टा सा चासौ देवता चाभीष्टदेवता-महावीरादिस्तीर्थकरविशेषः सर्वे वा तीर्थकृत इति, एवमन्यत्रापि & विशेषणसमासः कार्यः, तथा अभिमन्यते-श्रेयःप्रवृत्तैर्विघ्नवातविघातकत्वेन निश्चीयत इत्यभिमता-शासनदेवतादिः, तथा
Jan Educati
For Private Personal Use Only
w.ininelibrary.org