________________
वैयावृत्त्ये नियुक्तं दृष्ट्वा विपरिणामादयो दोषा इति गाथार्थः। 'प्रागुक्तं दुष्कृतकारण'मिति (२६३-२३ ), अस्या एव गाथायाः प्रथमपादे 'जं दुक्कडंति मिच्छे'त्यनेन यदुपात्तमित्यर्थः। 'सम्बद्ध एव ग्रन्थ' इति (२६३-२४), यथास्या गाथायाः पर्यन्ते पठ्यते तथैवेह योज्यते, द्वितीयव्याख्याने तु मिथ्याशब्दस्य पूर्वनिपातः करिष्यत इति भावः । 'न ह्यसावप्यवश्यं कर्त्तव्ये'त्यादि (२६५-१७), अयमभिप्रायः-कृतनषेधिकीकोऽपि अवश्यंकर्तव्यव्यापारान् करोत्येव कृतावश्यकीकोऽपि तानेव करोतीति कथं नैकार्थतेति । 'शेषकालमपी'त्यादि (२६६-४), स्थानस्थितस्यापि सदनुष्ठानव्यावृत्तस्यावश्यकी द्रष्टव्येत्यर्थः । 'अथवा चेतयत इत्यादि (२६६-११), ननु पूर्व शयनमनुभवतीति व्याख्यातं अत्र तु करोतीति व्याख्यायते, शय्याकरणं च नावश्यमनुभवत एव, हस्तगृहीतसंस्तारकस्यापि तदुपचारदर्शनात्तत्कथमस्य: व्याख्यानस्य पूर्वस्मान्न भेद इत्याशङ्कयाह-शयनक्रिया'मित्यादि (२६६-११), 'प्रतिक्रमणाचशेषे'त्यादि(२६६-१३), शय्यां स्थानं च यत्र चेतयते तत्र स्थाने नैषेधिकी भवतीति सम्बन्धः, कथम्भूतः सन्नित्याह-'प्रतिक्रमणे'त्यादि, कथम्भूते स्थाने ? इत्याह-एवंविधे'त्यादि-एवंविधावश्यककरणगुर्वनुज्ञारूपा यतीनां या स्थितिक्रिया तया विशिष्टे, इदं
तु यतेः सम्भवदपि विशेषणमुपचारतः स्थानस्योक्तम् । 'अनेने त्यादि (२६६-१७), अनेन 'एगग्गस्स पसंतस्से'. PI(२६५-२० ) त्यादिना ग्रन्थेन मूलगाथायाः 'आवस्सिइं च नितो' (२६५-१०) एतल्लक्षणायाः, 'एतावदिति | 31(२६६-१८), उक्तपादत्रयं व्याख्यातमिति योगः, किं कृत्वा ?-स्थितिरूपनषेधिकीप्रतिपादनमधिकृत्य, कथम्भूतं तत्प्रति-13 तपादनं ?-व्यञ्जनं-शब्दस्तद्भेदे निबन्धन-कारणं, एतदुक्तं भवति-गमनरूपा पूर्व तावदावश्यकी प्रतिपादितैव, यदा त्वनन्तरं
आ०७ Jain Educat
i onal
For Private & Personal Use Only
Tww.jainelibrary.org