SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पण विशेषः । अथ सामाचारी व्याख्यायते,–'काले-कालविषया सामाचारीति' (२५९-६), इयं सर्वाऽपीच्छाकारादिका इच्छादिका सामाचारी कालविषया-प्रस्तावनियता कस्याश्चित्कस्मिंश्चित्प्रस्तावे क्रियमाणत्वात् । 'अपिश्चशब्दार्थ' इति (२५९-१२), सामाचारी 'तत्थवि इच्छाकारो' ( २५९) इत्ययमपिशब्दश्चशब्दार्थे, स चानुक्तं समुच्चिनोति, ततश्च यद्यभ्यर्थयेत परं अनभ्यर्थितो दू वा तस्य कश्चित्किञ्चित्कुर्यादितीच्छाकारस्य विषयद्वयं दर्शितं, चशब्दसमुच्चितस्त्वपरोऽपि विषयः'अहवा सयं करन्तं' इत्यादिना (२६०-१३) दर्शयिष्यत इत्ययमत्र भावार्थः। 'एगस्स साहुस्स ल द्धी अस्थि'त्ति (२६२-४), भक्तपानलाभव-5 स्त्रसीवनादिलक्षणा, 'एवं चेव विराहेति'त्ति (२६२-९) एवमेव लब्धिर्विद्रास्यति अकृतकार्यत्वादित्यभिप्रायः। कुटीबृहत्तरा पडाली-लघुतरकुटीति (२६२-११) । 'सोहिया वत्ति' (२६२-१३), सुहृद्भूता-स्निग्धा स्वजनभूता 'आदेसादिअप्पडितप्पणे त्यादि (२६३-१), आदेशः-प्राघूर्णकः तस्य तप्त्या, यदा ह्याचार्यो भक्तपानाद्यानयनवस्त्रसीवनादिषु व्यग्रो भवति तदा दोषानाह-'मुत्तत्थेसु अ' गाहा (२६३-२), सूत्रार्थयोरचिन्तनं आदेशः-प्राघूर्ण-14 कस्तस्य स्वागतं न कश्चित्करोति, वृद्धशिक्षकग्लानक्षपकादीनां च न कश्चित्तप्तिं करोति, यदि त्वाचार्यो वैयावृत्त्यव्यग्रो न भवति ततस्तान् परतः स्वतो वा उपचरत्येव । 'वाले'त्ति (२६३-२), व्याल:-सर्पस्तेन यदि कश्चित्संयतो दश्यते तदा पानकाद्यानयनाय गते सूरौ तदुपचारज्ञाभावात्कस्तमुपचरति?, एवं वृत्तावपि यदुक्तं 'बाले सप्पभए' तदनन्तरोक्तविधिनैव व्याख्येयं । 'इड्ढीमाई अणिडिय'त्ति ( २६३-२), ऋद्धिमति-सामान्ये सार्थवाहादी आदिशब्दाद्राजामात्यादी वादिनि च समायाते सौगतादौ यो दोषो-लाघवलक्षणः स वृत्तिकारेणैवोक्तः अनृद्धिमतस्तु व्रताद्यर्थ समायातस्य आचार्यमपि RESEARCLEARS Jain Education 12 lnal For Privale & Personal use only M r.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy