________________
तु तत्त्वमिह केवात सर्व सुस्थं भवति भवति, तत्तु न
च्छब्दविशेषितकारणाभावस्याभ्युपगतत्वाधुज्यते पर्यायोत्पत्तिः, पर्यायिणः कथञ्चिदवस्थितत्वाद्, भवता तु कारणाभावस्य | सर्वथाशब्दविशिष्टस्याभ्युपगमात्कुतस्तदुत्पत्तिः, क्वचित्सवेदा विशिष्टत्वादितिपाठः तत्रापि विशिष्टत्वं कारणाभावस्य सर्वथाशब्दविशेषितत्वाद्रष्टव्यं, शेषं सुगम, समाप्त एकादशमः॥ अथ क्षेत्रादिगणभृद्व(गणभृत्क्षेत्रादि)क्तव्यता आह-ननु मण्डिको ज्येष्ठो मौर्यस्तु लघुतरो, गृहवासप्रतिपादकगाथायां तु ज्येष्ठस्य त्रिपञ्चाशद्वर्षाणि गृहवास उक्तो लघुतरस्य तु पञ्चषष्टिः दीक्षा द्वयोरप्येकस्मिन्नेव दिने तत्कथं न विरोधः, सत्यं, किन्तु तत्त्वमिह केवलिनो विदन्ति, केवलं गणभृन्नामप्रतिपादकगाथायां व्यत्ययपाठे गृहवाससर्वायुष्कप्रतिपादिकासु वा गाथासु च व्यत्यये सति सर्वं सुस्थं भवति, धनदेवे पञ्चत्वमुपागते मौर्येण 8 गृहे धृता इति वृत्त्यक्षराणां मौर्ये पञ्चत्वमुपगते धनदेवेन धृता इति व्यत्यये वा सति सुस्थं भवति, तत्तु न क्रियते विशिष्टसम्प्रदायाभावादिति ॥ 'तीसाबारसे'त्यादि ( २५६-१०) गाथा सुगमत्वेन वृत्तौ न विवृता, तत्र चउदसदुगं चेति पाठस्तत्र द्वौ वारौ चतुर्दशेति द्रष्टव्यं । 'वर्तनादिलक्षण'इति (२५७-६), वर्तना-द्रव्यस्थितिः आदिशब्दात्प्रतिक्षणभावी परिणामः । 'एकः कालशब्दःप्रागि'ति ( २५७-९), 'उद्देसे निद्देसे य' गाथायां । 'देवस्कन्धादे'रिति (२५७-१५), सचेतनस्य-देवादेः अचेतनस्य-यणुकस्कन्धादेः अथवा 'चेतनस्येत्यादि' पूर्व समस्तं पदं अत्र तु चेतनमित्यत्रापि षष्ठी द्रष्टव्या, ततो व्यस्तं पदद्वयमिति पूर्वव्याख्यानाद्भेदः। 'अथवा द्रव्यं तु तदेवे'ति (२५७-१७ ), 'कालश्चेत्येके' (तत्त्वा०18 अ० ५ सू० ३८) इतिवचनादेकीयमतेन कालस्याभावादिति भावः । 'वर्तनादिमयो यथायुष्ककाल' इति (२५८-४), ननु च द्रव्यकालोऽपि वर्तनादिमय एवोक्तस्तत्कथं न सङ्कीर्णता ?, सत्यं, किन्तु स द्रव्याणां सामान्येन अयं त्वायुष इति
Jain Educatio
n
al
For Private & Personal Use Only
Searww.jainelibrary.org