SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥३५॥ मोहनीयभेदा एते, मोहनीयं च पापमेव, यदाह-"मोहनीयं सर्वमशुभं" शेष सुबोधं, नवमः समाप्तः॥ दशमः गणधरवसुगम एव । एकादश आरभ्यते-'जरामयं वा एतत्सर्वं यदग्निहोत्र'मिति ( २५४-१३), अस्य व्याख्या-यदेत- क्तव्यता दग्निहोत्रं बहुभिः प्रकारैर्वेदे प्रतिपाद्यते एतत्सर्वमपि, किं ?-अभ्युदयार्थिभिः कर्त्तव्यमिति क्रियाध्याहारः, कियन्तं कालं || यावदित्याह-'जरामयं वेति जरा च मारश्च जरामारी तयोर्भाव इति यण छान्दसत्वाच्च शेषस्य निपातने सति जरामर्यमिति भवति, वाशब्दं चैवकारार्थं प्रभासो मन्यते, ततश्च बालकालादारभ्य यावज्जरामरणे आगच्छतस्तावन्तमेव कालं-यावजीवमित्यर्थः, इदं तु वक्ष्यमाणनीत्या निर्धाणनास्तित्वाभिधायक, तदस्तित्वाभिधायकमाह-"वे ब्रह्मणी इत्यादि, ब्रह्मशब्दस्तत्त्ववचनः, 'तत्र परं सत्य'मिति-निर्वाणं निरुपचरितत्वेन तस्यैव परमार्थतः सत्यत्वाद् अपरं तु तत्त्वज्ञानमिति, पूर्ववाक्याद्यथा निर्वाणनास्तित्वं तथा दर्शयति–'अग्निहोत्रे'त्यादि (२५४-१४ ), भूतानि-पश्वादीनि तेषां वधस्तेन होतुः उपकारो भूतो-जातो यस्यां सा तथा, यदिवा भूतवधोपकारं भूता-प्राप्ता तद्भावस्तस्मात् , शबलाकारा-सदोषा जरामर्यवचनाच्च यावज्जीववचनाच्च सदा इयमेव कर्तव्येत्युक्तं, सैव तर्हि निर्वाणफला भविष्यतीत्याह-'साचे'त्यादि (२५४-१५), अभ्युदयः-स्वर्गः तत्फलैव, एतदुक्तं भवति-सज्ज्ञानध्यानादिकया हि शुद्धक्रियया निर्वाणमवाप्यते, अग्निहोत्रक्रिया तु शबलत्वात्स्वर्गफलैव, यावजीववचनाच्च शुद्धक्रियारम्भक्षणो न लभ्यते इति कारणाभावान्निर्वाणाभाव इति, ननु च भवताऽपि पर्यायिक्षणस्य पर्यायरूपतया कथञ्चिदभाव इष्यते ततश्च भवन्मतेऽपि कथं पर्यायान्तरोत्पत्तिरित्याह-तदभाहै वस्य सर्वथाविशिष्टत्वादिति (२५४-२२ तदभावस्य च सर्वदाऽविशिष्टत्वात् वृ०) एतदुक्तं भवति-अस्माभिः कथञ्चि Jain Education onal For Privale & Personal use only alw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy