SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तुल्यसुखदुःखांशमेव प्राप्नोति, न चेत्थं दृश्यते, एतदाह-'असदृशेत्यादि, यदि पुनः कारणेऽपि सुखांशो दुःखांशो वा हीनाधिकोऽभ्युपगम्यते तदा सुखदुःखयोर्भेदः स्यादिति भावः, एतच्चोत्तरत्र स्वयमेव 'यद्वृद्धावपि यस्येत्यादिना ( २५३-१०) वक्ष्यति, निरंशसम्मिश्रसुखदुःखाख्यकारणाभ्युपगमे दृषणान्तरमाह-'न च सवेथे त्यादि (२५३-७), यद्यपि कस्यचिज्जीवस्य सुखदुःखाख्यं निरंशं कारणं महद् अल्पं वा कस्यचित् तथापि-अस्मिन् भेदे सत्यपि कार्यस्य हेतुधानुविधायित्वात् स्वरूपेण योऽसौ प्रमाणत इति-परिमाणमाश्रित्य अल्पत्वबहुत्वलक्षणो भेदस्तं विहाय नापरो भेदः| सुखदुःखांशयोहीनाधिकत्वलक्षणो युज्यते, एतदुक्तं भवति-यादृशोऽखण्डस्यैव कारणस्याल्पबहुत्वलक्षणो भेदस्तादृशः कार्येऽप्यस्तु, न पुनः सुखदुःखांशयोहीनाधिकत्वलक्षण इति, तस्मादन्यत्सुखातिशयस्थ निमित्तमित्याद्युक्ते पराभिप्रायमाशक्याह-'न च सर्वथेत्यादि (२५३-९), सुखातिशयस्य निबन्धनं योऽशस्तस्य वृद्धिः की सुखातिशयाय कल्पते-सुखातिशयकारणं भवतीतिन वाच्यमिति योगः, कया हेतुभूतया?-दुःखातिशयस्य कारणं योऽशस्तस्य हान्या सर्वथैकस्येति-साभिप्रायिकमिदं सर्वथैकत्वात्तस्य, पापांशहान्या पुण्यांशे वृद्धिमुपगते सुखातिशयो भवतीत्यादिकल्पना न युज्यत इति भावः, कस्मादित्याह-भेदे त्यादि ( २५३-१०), पुण्यपापयोः कथञ्चिदभेद इति दर्शयति-'यतः साते'त्यादि (२५३-११), शुभायुनामगोत्राणीति शुभशब्दः प्रत्येकमपि सम्बध्यते, ततश्चायुष्कं शुभमिन्द्रादीनां, नाम तु शुभं यशःकीर्तितीर्थकरादेयसुभगसुस्वरादि, गोत्रं तु शुभमुच्चैर्गोत्रं, एताः कर्मप्रकृतयः पुण्यं, शेषास्तु मिथ्यात्वनरकगत्यादयः पापं, अत्र च सम्यक्त्वपुञ्जहास्यरतिपुरुषवेदानां पुण्यत्वं सैद्धान्तिकमतानुसारतो द्रष्टव्यं, कार्मग्रन्थिकास्तु न मन्यन्ते एव, यतो JanEducat For Private Personal use only Pawww.sainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy