SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं गणधरवकव्यता OSAARIXACHADASSASA किन्तु पुण्यवत्पथ्याहारस्तस्य मूलतोऽप्यनभ्युपगत एव, यदा त्वपथ्यमपि सर्व जहाति तदोभयाहाराभावात्कथं न तस्य मृति-I रिति । 'अन्योऽन्यानुविद्धखरूपकल्प'मिति (२५२-२१), अन्योऽन्यसंकीर्णस्वरूपं पञ्चवर्ण यथा मेचकमण्यादिक वस्तु तत्कल्पं-तत्सदृशमित्यर्थः । 'नारकाणामपि (च वृ०) पञ्चेन्द्रियत्वानुभवा'दिति (२५२-२२), परिपूर्णपञ्चे|न्द्रियत्वं हि सुखमिति भावः, 'न च तद्भावो दुःखहेतु रिति (२५३-२), तस्य-पुण्यस्याभावस्तदभावः, आह-ननु यदि सुखवद्दुःखमपि किश्चिद्वास्तवं स्यात्तदा तस्य हेतुरन्विष्येत, यदा तु सुखभाव एव स्वसत्ताविकलो दुःख-सुखं निवृत्तं सत्तदेव दुःखमभिधीयते न पुनस्तदतिरिक्तं दुःखमस्ति यदर्थ पापलक्षणो हेतुर्मुग्यते तदा किं तद्धे त्वन्वेषणेनेत्याशङ्कयाह-'न च सुखाभाव एवे'त्यादि (२५३-३), पातनायामेव व्याख्यातं, क्वचित् 'सुखभावे' त्यादिपाठः स चाशुद्ध इव लक्ष्यते, अत्र हेतुमाह-'तस्यानुभूयमानत्वादिति, एतदुक्तं भवति-सुखमप्यस्तीत्यनुभवादेव भवता निश्चीयते, स चानुभवो दुःखेऽप्यस्ति, न चोक्तकल्पनामात्रादनुभूयमानमपि निषेधुं शक्यते, एवम्भूतकल्पनाया विपर्ययेणापि कर्तुं शक्यत्वात्, तस्माद्दुःखस्याप्युक्तनीत्या वास्तवत्वात्तदनुरूपेण पापलक्षणेन हेतुना भाव्यमिति, अनुमानतो दर्शयति-ततश्चेत्यादि, 'न च पुण्यलेश एवे'त्यादि ( २५३-४ ), तस्याल्पस्यापि स्वल्पसुखनिवर्तकत्वादित्यादि पूर्वमेवोक्तमिति भावः, ननु पथ्याहारलक्षणो दृष्टान्तः पूर्वमुक्तः स कथं ज्ञेय इत्याशङ्ख्याह-एवं दृष्टान्तोऽपी'त्यादि, स्वल्पोऽपि पथ्याहार आरोग्यतासुखहेतुरेव भवति, न ह्यणीयसोऽपि हेमपिण्डादित्याद्युक्त्वा सोऽप्याभासनीयो-दूषणीय इति भावः। 'सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गादिति (२५३-६), अयमत्र भावार्थो-यदा कारणं तुल्यसुखदुःखांशं भवति तदा कार्यमपि ॥३४॥ Jan Education For Private & Personal use only XDainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy