SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रकृष्टार्थग्रहणसामर्थ्य, आगमादिस्तु हेतुकलापः सहकारिकारणमेव, अस्य च सर्वस्यापि सर्वज्ञसाधकवचनसंदर्भस्य तात्पर्य प्रयोगद्वारेणोच्यते-यो यावति प्रकाशयितव्ये समर्थः स प्रतिबन्धकाभावे तावत्प्रकाशयत्येव, यथा पद्मरागादिमणिविशेषः, सकलत्रैलोक्यान्तर्गतवस्तुप्रकाशकश्च पूर्वोक्तनीत्या जीवः तस्मात्तत्प्रकाशयत्येव, न च वक्तव्यं पूर्वोक्तनीत्या देशा-18 दिविप्रकृष्टवृक्षमूलादिकियत्पदार्थज्ञातृत्वेन भवत्वसौ ज्ञस्वभावो, लोकालोकान्तर्गतामूर्त्ततरस्वरूपाकाशास्तिकायादिप-| दार्थज्ञातृत्वेन तु कथमात्मनो ज्ञत्वसिद्धिरिति ?, यतस्तेषामप्यदर्शने देशविप्रकर्षों वा निमित्तं स्यात्कालविप्रकर्षो वा से |निमित्तं स्यात्स्वभावविप्रकर्षो वा ?, न तावद्देशविप्रकर्षस्तदज्ञातृत्वकारणं, देशविप्रकृष्टभौमादिग्रहस्वरूपस्येदानीमपि परि-5 ज्ञानात् , तथाहि-सम्भवन्त्येवं ज्ञातार इदानीमपि केचन विशिष्टगणकाः-अद्यामुकग्रहो वक्रस्थ इत्यादि, नापि कालविप्रकर्षः। तद्विप्रकृष्टस्यापि चन्द्रोपरागमेघवृष्ट्यादेः परिज्ञानात् , नापि स्वभावविप्रकर्षः तद्विप्रकृष्टस्य नरादिशरीरसङ्क्रान्तभूतादेविशिष्टनिमित्तबलेनाधुनिकैरपि परिज्ञानात् , तदेवं देशविप्रकर्षादिप्रतिबन्धकाभावात्तज्ज्ञातृत्वेनापि तत्त्वमस्यानिवार्यमेव, यत्तु न पश्यति अस्पष्टं वा पश्यति तज्ज्ञानावरणादिप्रतिबन्धकसद्भावात् , सज्ञानध्यानादिकारणकलापात्तु तदपगमेऽनन्तानुत्तरज्ञानवान् सर्वदर्शी भवति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, शेषं सुगम, समाप्तोऽष्टम इति ॥ नवम आरभ्यते-तत्र 'खभावोपन्यासोऽपि तथैवेति ( २५२-१५), स्वभावादेव नियतदेशगर्भादिग्रहणं भविष्यति किं पुण्यपापाभ्यामित्यादि, यथा द्वितीयगणधरे तथा वाच्यमिति । 'अशेषपरित्यागान्मृतिकल्पो मोक्ष इति (२५२-२०), ननु चापथ्यस्य सर्वस्य परित्यागे पथ्याहारसम्भवात्कथं तस्य मृतिर्येनोच्यते मृतिकल्पो मोक्ष इति, सत्यं, PASAURORAQAAAARISAIRAS Jain Education na For Privale & Personal use only MOw.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy