SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ | येऽमरणधर्माणो मुक्ता न बभूवुस्ते स्वर्गमगमन्निति भावः, गत्वाऽपि स्वर्ग किं ते पापुरित्याह–'अविदाम देवानि'ति, विदे-13 लाभार्थत्वाच्छान्दसत्वाच्च देवानिति देवत्वं लब्धवन्त इत्यर्थः, न केवलं मम प्रत्यक्षत्वात्सन्ति देवाः, किन्तु भवतोऽपि प्रत्यक्षत्वादिति योज्यं, तत्प्रत्यक्षत्वं च देवानां तदा तत्रैवागतत्वात् , आगमाच्च ‘स एष यज्ञायुधी'त्यादिलक्षणात्सन्तीत्यनुवर्त्तते, ननु 'को जानाति मायोपमानि' त्यादिलक्षणादागमान्नास्तित्वमप्यवसीयत इत्याह-'सर्वथे' त्यादि, 'अनधीनमनुजकार्यत्वादिति ( २५०-२७), न हि मनुष्याणां सम्बन्धि किञ्चित्कार्य देवानामायत्तं, तस्य मनुष्यनिर्वय॑त्वात् , यदिवान देवकार्य किञ्चिन्मनुष्याधीनं येन तन्निष्पत्तये ते इहागच्छेयुरिति भावः, एतैश्च सर्वैरेव हेतुभिः 'संकंतदिवपेमा विसयपसत्ता समत्तकत्तवा । अणहीणमणुयकज्जा नरभवमसुभं न इति सुरा॥१॥ एषा भाष्यगाथा विवृता भवति, शेषं सुगमं । सप्तमः समाप्तः॥अष्टमः प्रारभ्यते-अत्र सर्वज्ञाभाववादिमीमांसकादिमतमाशङ्कयाह-'न चाशेषे'त्यादि (२५१-१८), उपपत्तिमाह-'यत इत्यादि, यदि समस्तवस्तुज्ञायकोऽसौ किमिति तन्न पश्यतीत्याह-'ज्ञाने'त्यादि, यद्यावृत्तस्वभावोऽसौ ज्ञस्वरूपत्वं तर्हि कथमवसीयते इत्याह-'तत्क्षयेत्यादि ( २५१-१९), तस्य-ज्ञानावरणीयस्य क्षयोपशमस्तस्माजातः, यदि नाम क्षायोपशमिको ज्ञानवृद्धिविशेषस्तथापि कथं तस्य ज्ञस्वरूपत्वमित्याह-न ह्यय'मित्यादि ( २५१-२०), तत्स्वाभाव्यमिति-ज्ञस्वाभाव्यं, एतदुक्तं भवति-नायं ज्ञानवृद्धिविशेषोऽज्ञस्य युज्यते, दृषदोऽपि तत्प्रसङ्गाद्, इत्येवमित्याधुपसंहारः, ननु चात्मा ज्ञस्वभावः, पद्मरागस्तु प्रकाशस्वभावः, ततश्च यथा मलकलङ्कापगमेऽप्रतिस्खलितदीप्तिरपि प्रकाशस्वभावोऽपि न सर्व प्रकाशयति, किन्तु कियत्पदार्थप्रकाशकत्वेनैव तस्य प्रकाशस्वभावत्वं, एवमात्मनोऽपि ज्ञानावरणा. Jain Educat onal For Privale & Personal use only www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy