SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अयं घटादिरयं च शरावादिः, निबन्धनाभावादित्याशङ्याह-'न च परमाणूना'मित्यादि (२४७-२१), पृथुबुनोदराका रादिपरिणामवन्तो घटादयः उत्तानच्छत्राकारादिपरिणामवन्तश्च शरावादय इत्यादिपरिणामवैचित्र्यान्निबन्धनाभावादित्यहा सिद्धो हेतुरित्यभिप्रायः, ननु च मया भूतानामभाव आशङ्कितः, साधिता च परमाणुसत्तेत्यसम्बद्धमेत दित्याशङ्कयाह'न च परमाण्वि'त्यादि (२४७-२२), नन्वयुक्तमेतद्-आकाशस्यानणुरूपत्वात् , सत्यं युक्तमुक्तं, केवलं पृथिव्यप्तेजोवायूनां तद्रूपत्वाद्बाहुल्यादित्थमुक्तं, आकाशं तु विद्यते नभः असमस्तपदवाच्यत्वाद् घटवदित्यादियुक्तिभ्यः स्वयमभ्यूह्यमित्यलं प्रसङ्गेन समाप्तश्चतुर्थगणधरः । पञ्चमः सुगमः । षष्ठः प्रारभ्यते-पूर्व निर्हेतुकत्वादात्मनः प्रसूतिरेव नोपपद्यत इत्युक्तं, इदानीं पूर्वस्मिन्नेव पक्षे प्रसूतिमभ्युपगम्यापि दूषणमाह-'न चादिमत्यपी'त्यादि (२४९-१६), क्वचिदनादिमत्यपीति पाठः, स चायुक्त एव, तत्पक्षस्यानन्तरमेव वक्ष्यमाणत्वादिति । अनादित्वाज्जीवकर्मसंयोगस्य वियोगाभावान्मो|क्षाभावं प्रतिपाद्य प्रकारान्तरेणाह-'देहकर्मसंन्ताने त्यादि ( २४९-१९), सन्तानश्चायं देहकर्मणोरित्थं द्रष्टव्यः-शरीरं कर्म जनयति, कर्मापि शरीरं, तदपि पुनः कर्म, कापि पुनः शरीरमिति, तदेवमत्र जन्यजनकभावेन व्यवस्थितेदेहकर्मसन्तानस्य व्यवच्छेदाभावान्मोक्षाभावः पूर्वमत्र च जीवकर्मणोवियोगाभावादित्ययं विशेषः, अत्र च परिहारः-संयोगवियोगाभावपक्षे यतः काञ्चनोपलयोरित्यादिकं वक्ष्यति, द्वितीयपक्षे तु स्वयमभ्यूह्यं, यथा नायमेकान्तोऽनादेर्जन्यजनकत्वेनावस्थितस्य सन्तानस्यान्तो न भवति, यतोऽनादिकालाजन्यजनकभावेन व्यवस्थितोऽपि बीजाङ्कुरादिः सन्तानः सान्तो| दृश्यते, कस्यचिद्वीजस्य वयादिसामग्रीतो विनाशादङ्करस्यानुत्पत्तेरिति, ननु च जीवकर्मणोः संयोगः किं काञ्चनोपल Jain Educat i onal For Privale & Personal Use Only Mww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy