________________
SSI
गणधरवक्तव्यता
आवक
यादिसामग्र्या अनलप्रसूतिः, न च तत्र सामग्र्यन्तर्गतं किञ्चित्तत्र सङ्कामति, तथेहापि रूपालोकमनस्कारादिसामग्र्या नीलाहारि०
दिप्रतिभासपरिणामस्वरूपमात्मनो ज्ञानमुत्पद्यते का तत्र भेदाभेदपरिकल्पना?, प्रतीतिबाधितत्वेन तस्या अनादेयत्वात्, टीप्पणं तदुक्तं कैश्चित्सौगतविशेषैरपि-“रूपालोकमनस्कारचक्षुर्यः संप्रवर्तते । विज्ञानं मणिसूर्यांशुगोशकृद्भय इवानलः॥१॥
इति” तदेवं विशिष्टरूपादिसामग्र्या नीलादिविषयग्रहणपरिणामस्यैव ज्ञानस्याभ्युपगमान्नाकारसङ्क्रान्तिपक्षोक्तो दोषः, ॥३१॥
तदभावाच्च नार्थाभाव इति स्थितं, तद्दर्शनान्यथानुपपत्तेरेव स्वाभ्युपगमं ग्राह्यन्नाह-'इत्थं चैतदि'त्यादि (२४७-१९), प्रागुपन्यस्तविकल्पयुगलं भेदाभेदलक्षणं, इदमत्र हृदयं-अर्थाभावेऽप्यनाद्यविद्यावशतस्तावद्भवताऽपि नीलपीतादिबुद्धयः
क्षणिकस्वरूपा इष्यन्त एव, तत्र चोत्तरनीलबुद्धिक्षणो यो नीलाकारः प्रतिभाति स किं पूर्वनीलबुद्धिक्षणाद्भिन्नोऽभिन्नो हवा ?, यदि भिन्नः कथमुत्तरसंवेदनक्षणे प्रतिभासते, प्रतिभासे वा पीताकारस्याप्युत्तरबुद्धिक्षणे प्रतिभासः स्यात् , पूर्व
नीलबुद्धिक्षणाद्वयोरपि भेदाविशेषात् , अथाभिन्न इति पक्षस्तर्हि न जन्यजनकभावः, उत्तरनीलसंवेदनाकारस्य पूर्वस्मादभिन्नत्वाद्, भेदे च जन्यजनकभावाभ्युपगमादित्युत्तरनीलसंवेदनोत्पत्त्यभावादेकमेव प्रथमनीलसंवेदनं स्यात् , अथ प्राक्तननीलसंवित्तेस्तथाभूतैवोत्तरनीलसंवित्तिः प्रादुर्भवति किं तत्र भेदाभेदचिन्तया?, हन्त तर्हि स एव सुहृद्भूतोऽस्मदभ्युपगमस्तवापि शरणं, वयमपि ह्येवमेव ब्रूमः-तथाविधनीलविषयादिसामग्र्यास्तथाभूतमेव नीलप्रतिभासपरिणामं ज्ञानमुत्पद्यते किमिह भेदाभेदचिन्तयेति इत्येवमादि सुगमं । नन्वेतावता ग्रन्थेनेदमुक्तं-एकैकः परमाणुन गृह्यते, बहुषु तु परमाणुषु समुदितेषु तत्तुल्यरूपं चक्षुर्ज्ञाने प्रतिभासत इति तदेतन्मन्यामहे, केवलं परमाणूनां बहुत्वेऽपि तुल्यबुद्ध्यभ्युपगमेऽयं विशेषो न स्याद्
॥३१॥
Jain Education
I
o nal
For Private & Personal Use Only
W
w.jainelibrary.org