SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ऽत्यन्तव्यतिरिक्ताकारपरिच्छेदे तस्य परिच्छेदो युक्तः, अन्यथा घटपरिच्छित्तौ पटस्यापि परिच्छित्तिः स्यादिति न प्रतिनियतविषयव्यवस्था, अथाभिन्नो नीलविषयान्नीलाकारोऽभ्युपगम्यते तर्हि विषयाकारस्य ज्ञानात्मनि सङ्क्रान्तत्वाद्विषयस्य है निराकारतैव स्यात् , किञ्च-विषयादभिन्नत्वादाकारस्य तत्सङ्कान्तौ विषयस्यापि ज्ञानात्मनि सङ्क्रान्तिरभ्युपेया, सा च न युक्ता, निशितशस्त्रदहननीरनिवहाद्यवलोकने हृदयपाटनदहनप्लावनप्रसक्तेः, तदेवं विषयाद्भिन्नस्याभिन्नस्य वा तदाकारस्य 3 ज्ञानात्मनि प्रतिभासाभावात् तद्वारेण ग्राह्यत्वाभिमतार्थानामप्यभाव इति ज्ञानमेवैकं वस्तु सन्नार्थ इत्येवं विह्वलमारसन्तं ज्ञानाद्वैतवादिनमाशङ्कयाह-'न च विषये'त्यादि ( २४७-१८), विषयो-नीलादिस्तद्बलेन यः सञ्जातः संवेदनस्याकारो नीलादिः तस्य पूर्वोक्तनीत्या विषयाझेदाभेदविकल्पमुखेन अनुपपत्तिः-अघटना न भाव्यत्यक्षरघटना, भावार्थस्तु पातनावसरे कथित एव, क्वचिद् "विषयबलोपसंजातसंवेदनाकारस्य ज्ञानस्येति पाठः, स तु नातीव श्लिष्टतया बुद्ध्यते, कथञ्चित्स्वबुद्ध्या भावनीयो वा, कस्मात्संवेदने.कारस्यानुपपत्तिन भाव्येत्याह-विशिष्टे'त्यादि (२४७-१८), अयमभिप्रायो-नास्माभिराकारसङ्क्रान्तिानेऽभ्युपगम्यते येन भेदाभेदपरिकल्पनयाऽऽत्मानं परिक्लेशयति भवान् , किन्तु विशिष्टपरिणामो योऽर्थः प्रतिविशिष्टदेशाद्यवस्थानेन सम्पादितविज्ञानजननस्वभाव इति भावः, तत्सन्निधावात्मनो-जीवस्य कालश्च क्षयोपशमश्च आदिशब्दात्सोपयोगत्वादिपरिग्रहः, तत्सव्यपेक्षस्य नीलादिप्रतिभासं ज्ञानमुत्पद्यते, तथाहि-पुरुषादिमुखसङ्क्रान्तिमन्तरेणापि दर्पणादौ कश्चित्प्रतिबिम्बोदयो दृश्यते, न च तत्र भेदाभेदकल्पना युक्तिमती, तथाविधपुरुषमुखादिसामग्यास्तथाभूतसप्रतिबिम्बदर्पणादिवस्तूत्पत्तिदर्शनात् , न हि दृष्टेऽनुपपन्नं नाम, यथा वा सूर्योपलरविकिरणगोम Jain Educa t ional For Private & Personal use only lwww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy