SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Jain Educat वर्त्तन्त इति भवदभिप्रेतापि तुल्यबुद्धिर्निमित्तरहितैवेत्याशङ्कयाह - 'न चेयमनिमित्तेत्यादि ( २४७ - ८ ), एतदपि कुत इत्याह- 'देशे 'त्यादि, यदि हि निर्निमित्ता एवार्थबुद्धयो भवेयुस्तर्हि देशकालाद्यनियमेन सर्वत्रैवोत्पद्येरन्नियामकाभावादिति भावार्थः । ननु च स्वप्नबुद्धयोऽपि नियतदेशादिविशेषितमर्थं गृह्णन्ति न च सत्या एवेत्याह- 'न च खमे'त्यादि ( २४७ - ९ ), भावना सुगमैव, 'अणूभूय' गाहा ( २४७-९), अनुभूतं - जलावगाहनादि दृष्टम् - अङ्गनादि चिन्तितंक्रयविक्रयादि श्रुतं देवलोकादि प्रकृतिविकारो - वातपित्तक्षोभादिर्देवता - प्रतीता अनूप :- सजलप्रदेशः, तत्र हि सुप्तः प्रायः किल प्रचुर स्वप्नदर्शी भवति, एतानि सर्वाण्यपि स्वप्नदर्शन निमित्तानि भवन्ति, तथा शुभस्वप्नदर्शने पुण्यं दुःस्वप्नदर्शने पापं च निमित्तीभवति नाभावः - अवस्तुरूपः । किञ्च यदि घटादयोऽर्थाः सत्यतया नाभ्युपगम्यन्ते तर्हि नेयं भवतो व्यवस्था युज्यते-अयं स्वप्नोऽयं चास्वनः इदं गन्धर्वनगरं व्यलीकमिदं तु वस्तु सन्नगरं पाटलीपुत्रादीति, अमुमेवार्थमाह - 'न च भूते' त्यादि ( २४७ - १० ), एवं तुल्यबुद्धेः सनिमित्तत्वं व्यवस्थाप्य पुनरपि ज्ञानवादिमतमाशङ्कयाह'न चालये' त्यादि ( २४७ - ११ ), आलय आश्रय आधार इत्यनर्थान्तरं तद्भूतं विज्ञानं आलयविज्ञानं घटाद्यर्थग्राहका|नेकज्ञानजनकशक्त्याधारमनादिप्रवाहवाहिकया प्रवृत्तं मनस्काराख्यं चैतन्यमात्रमित्यर्थः, तद्गता या शक्तिस्तस्यास्तथाविधवासनातः समुद्भूतो यः परिपाकस्तत्समनन्तरं यदुत्पन्नं तुल्योऽयमिति विकल्पजननसामर्थ्यमालयविज्ञानस्य तदस्यास्तुल्यबुद्धेर्निमित्तं न वाह्यार्थगतं तुल्यत्वमिति न वाच्यं कुत इत्याह- 'स्वलक्षणे' त्यादि ( २४७ - १२ ), आलयविज्ञानगतं हि सामर्थ्य सकलसजातीयविजातीयव्यावृत्तं स्वलक्षणरूपं, तच्च कथं तुल्यबुद्धौ विपरिवर्त्तमानस्य विजातीयव्यावृत्तिमात्ररूपतु ational For Private & Personal Use Only www.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy