________________
आव० हारि०
टीप्पणं
॥२९॥
ल्पितमेवेत्याह-'न च तदन्ये'त्यादि (२४७-४), एतदपि कुत इत्याह-खरूपे'त्यादि (२४७-५), परमाणूनां हि गणधरव. किश्चित्स्वकीयं रूपमभ्युपगन्तव्यं, अन्यथा तदन्यव्यावृत्तिमात्ररूपतायां खपुष्पत्वप्रसङ्गः, स्यादेतद्-भवतु नाम परमाणूनां
कव्यता स्वरूपं, तथापि न भवत्समीहिततुल्यत्वसिद्धिः, तस्यैव सजातीयेतरव्यावृत्तस्य तदन्यव्यावृत्तिरूपत्वादित्याह-न च तद्पमेवेति (२४७-६), किमितीत्याह-'तस्ये त्यादि ( २४७-७), तस्य अणोस्तेभ्यः-सजातीयेतरपरमाणुगगनादिभ्यः, एतदुक्तं भवति-येन स्वभावेनासौ व्योमादिभ्यो व्यावृत्तो न तेनैव शेषाणुभ्य इति स्वभावद्वयमस्याभ्युपगन्तव्यं, कस्मा|दित्याह-'खभावे'त्यादि (२४७-७), अयमभिप्रायो-यदि हि विवक्षितस्याणोः स्वभावद्वयं स्यात्तर्हि तदाश्रित्यायमस्य। सजातीयः परमाणुर्विजातीयश्च गगनादिरिति व्यवस्थाप्येत, नान्यथा, निबन्धनाभावात् , यदि नाम स्वभावद्वयं तस्या-18 भ्युपगतं तथापि तस्य सजातीयव्यावृत्तिनिबन्धनस्वभावेन सर्वथैव सजातीयेभ्यो व्यावृत्तत्वान्न भवदभिप्रेततुल्यत्वसिद्धिरित्याह-'सजातीयैकान्ते'त्यादि ( २४७-७), इदमत्र हृदयं यथा तस्य विजातीयेभ्यः-अनणुस्वभावेभ्यः व्योमढ्यणुकादिभ्योऽनणुत्वेन व्यावृत्तौ अनणुत्वस्याभावः, षष्ट्यन्तस्य वतिः, तथा सजातीयेभ्यः-परमाणुभ्य एकान्तेनाणुत्वेनापि|| व्यावृत्ताविष्यमाणायामणुत्वस्याप्यभावः स्यात् , भावे चाणुत्वस्यैव तुल्यरूपतेति सिद्धं नः साध्यं, ननु चार्थानां तुल्यत्वातुल्यत्वचिन्ता युज्यते यद्यर्था एव तावत्सत्यतया सिद्धा भवेयुः, तच्च नास्ति, तत्प्रतिभासस्य निर्निमित्ततया भ्रान्तत्वात्, R २९॥ तथाहि-स्तम्भादीनां यावदृश्यमस्ति तस्य परभागः कल्पनीयः, स चार्वाग्भागेन तिरोहितत्वान्न दृश्यते, सर्वारातीयभागस्त्वेकैकपरमाणुप्रतररूपः, स च नाग्दिर्शिनां दृग्पथमवतरतीत्यनादिविद्यातो निनिर्मित्ता एवार्थावभासास्तथा तथा विपरि-1
Jain Education
a
l
For Privale & Personal Use Only
djainelibrary.org