________________
देहत्याविशेषात्सर्वदेहानामद वितण्डाजात्यादिपविशिष्टा काचिदभ्युपगमाना ।
(२४३-१८), यदि हि देह एव ग्रहः स्यात्तदा देहत्वाविशेषात्सर्वदेहानामप्यष्यतिरिक्तहास्यादिप्रसङ्ग इति भावः इति प्रथमो गणधरः । इदानी द्वितीयः-'छलादिने'ति (२४३-२७), आदिशब्दाद् वितण्डाजात्यादिपरिग्रहः, 'अकारणताविशेपाभ्युपगमे चे'त्यादि (२४५-३), एतदुक्तं भवति-यद्यतिप्रसङ्गनिवृत्त्यर्थमकारणतापि विशिष्टा काचिदभ्युपगम्यते तदा तद्भावप्रसङ्गः-कर्मभावप्रसङ्गः, संज्ञान्तरेण तस्यैवोक्तत्वादित्यभिप्रायः इति द्वितीय इति । तृतीयः सुगमः । इदानीं चतुर्थवक्तव्यता-समूहिभ्यस्तत्त्वान्यत्वाभ्या'मित्यादि (२४६-२७ ), समूहः समुदाय इत्यनान्तरं, समूहिनः समुदायिन इत्यपि च, ततश्चायं समुदायः समुदायिभ्यो भिन्नो वा स्यादभिन्नो वा ?, यद्याद्यः पक्षस्तीसौ समुदायिषु वर्तमानः किं देशेन वर्त्तते सर्वात्मना वेति वक्तव्यं, यदि देशेनेति पक्षस्तर्हि तेष्वपि देशेष्वनेन वर्तितव्यं, ततस्तत्रापि वर्त मानः किं देशेन वर्तते सामस्त्येन वेत्यादि पुनस्तदेवावर्त्तत इत्यनवस्था, अथ सर्वात्मनेति पक्षस्तयेकस्मिन्नेव समुदायिनि सामस्त्येन वृत्तत्वाद्वितीयादिसमुदायिनः समुदायशून्यत्वमासादयेयुः, अथ मा भूदेष दोष इत्यभिन्नोऽसौ अभ्युपगम्यते
तर्हि समुदायिन एव तेन पुनस्तदतिरिक्तः समुदायो वास्तवः कश्चनापि विद्यत इति तत्त्वान्यत्वाभ्यां-भेदाभेदाभ्यामनि४ वचनीयः-अवाच्य इत्यर्थः, 'तदभावे खल्वेकपरमाणुव्यतिरेकेणेत्यादि (२४७-४), 'तदभावे' इति तुल्यत्वाभावे,
कथं शेषपरमाणूनामभाव इति चेद् उच्यते, ते हि विवक्षितपरमाणुना सार्द्ध परमाणुत्वेन तुल्या न वेति वाच्यं, यदि तुल्यास्तर्हि तुल्यरूपसिद्धिः, अथ न तुल्या इति पक्षस्तर्हि यथा परमाणुत्वेनातुल्यस्य व्योमादेः परमाणुत्वाभावस्तथा विवक्षितैकपरमाणुव्यतिरेकेण शेषपरमाणुष्वपि तत्त्वाभावः स्यात्, तत्रैतत् स्यात्-तदन्यव्यावृत्तिमात्रं तुल्यत्वं, तच्च परिक
Jan Educat
i onal
For Private & Personal use only
Amww.jainelibrary.org