SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 1E3% आव० हारि० टीप्पणं गणधरवकव्यता ॥२८॥ द्वाराभिधायकत्वेन प्रस्तुतगाथामेव व्याचक्षते, व्युत्पन्ना चेयं व्याख्या, 'केवइय'त्ति शब्दस्य प्रस्तुतार्थध्वनकत्वादित्यादिकारणादिति । 'अपिशब्दादुपशमेऽपीति (२३६-९), उपशमः प्रकृतीनां यद्यपि तस्य न सम्भवति तथापि कर्मणां| तीव्रोदयनिरोधमात्रमुपशमत्वेन विवक्ष्यत इति । 'अकालहरण'मिति (२३७-२), श्रोतुः पृच्छाकालस्यानतिपातो, बहूनां कथने हि तत्कालातिपात एव स्यादिति । 'साधारणासपत्नाया मिति (२३७-१४ ) ग्राहकगिरो विशेषणं । इति समवसरणवक्तव्यता। इदानी गणधरवक्तव्यता-'अन्नोऽवि जाणइ मए ठियम्मी' (अह एइ अहम्माणी अमरिसिओ इन्दभूइत्ति (वृ.) अत्र तु ज्ञायते अन्नोऽवि जाणइ मए ठियंमि सो इन्दभूइत्ती २४१) त्यादिगाथादलं, मय्यप्यत्र स्थितेऽन्योऽपि | कश्चित्किञ्चिज्जानातीति कुतस्त्यमेतत् ?, न सम्भवतीत्यर्थः। 'सत्सम्प्रयोगे'इत्यादि (२४२-१६), सता-विद्यमानेन घटा| दिना सम्प्रयोगे-सम्बन्धे केषाम् ? इन्द्रियाणां पुरुषस्य-जीवस्य यद्बुद्धिजन्म भवति तत्प्रत्यक्षमिति । 'न च वाच्यं घटसत्तायामपि नवते'त्यादि ( २४३-४ ) अयमत्र भावार्थः-चार्वाकः किलाह-ननु घटे विद्यमानेऽपि नवता निवर्त्तते पुराणावस्थायाम् , अथ च तथापि नवता घटस्य धर्मो भवति, एवं यद्यपि शरीरसद्भावे चैतन्यं निवर्त्तते तथापि घटनवतावद्भूतधर्मातैव चैतन्यस्येति,तदेतन्न वक्तव्यं,कुत इत्याह-'घटस्य द्रव्यपर्याये'त्यादि(२४३-५),सुगम 'प्रदीपे'त्यादि(२४३-१५) प्रदीपेन बहिर्भागरूपप्रदेशेनोद्योतितो न सर्वात्मना यो घटस्तद्वद्देशतः प्रत्यक्षो जीव इति । ननु च देह एव ग्रहो न तद्व्यतिरिक्तः, तस्य चाव्यतिरिक्तस्य हास्यादिलिङ्गेन सहाविनाभावोऽध्यक्षसिद्ध एवेत्याशङ्कयाह-'नच देह एव ग्रह'इति RCMCCROSSAMACHAR ॥२८॥ Jain Education in For Private & Personal Use Only M inelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy