________________
Jain Educat
मिन्द्रियाणि गृह्णन्ति जीवस्तु तानि तत्र प्रयुङ्क्ते, अतो वस्तूनां ग्राहकाणीन्द्रियाणि ग्राहयिता जीव इति न किञ्चिदनिष्टं - करणविवक्षया करणान्यप्यमूनि भवन्ति, अनन्तधर्माध्यासितत्वाद्वस्तुनः, असिः छिनत्यसिना छिनत्तीति दर्शनादिति । 'एएहिं परहिं तस्स उवगतं ' ति ( २२६-३), तस्य ब्राह्मणस्यैतैः पूर्वोक्तपदैरुपगतं - परिणतमिदं, यदुत - सर्वभाववेत्ताऽसौ ततो युक्तं देवैः पूजनमस्येति । 'वेयावत्तं ' ( २२७ - १० ) चैत्यमिति, कोऽर्थ इत्याह- 'अव्यक्त' मिति जीर्णं पतितप्रायम निर्द्धारितदेवताविशेषाश्रयभूतमित्यर्थः । उपसर्गविवरण समाप्तमिति । 'दश द्वे च सङ्ख्यया द्वादशेति (२२८-१५), अत्र वारा इति शेषो द्रष्टव्य इति । 'क्षीरादिद्रवाहार भोजन का ललभ्यव्यतिरेकेणे' ति ( २२८ - २३ ), क्षीरादिश्चासौ द्रवाहारश्च तस्य भोजनकालः तत्र लभ्यं प्राप्तं गृहीतं यत्पानकं तद्व्यतिरेकेण नान्यदा पानकभोगं कृतवानित्यर्थः यदा लेप| कृदाहारसंसृष्टं करादिकमभूत्तदा पानकं जग्राह नान्यदेतिभावः, अन्ये त्वाहुः- क्षीरादिद्रवाहारश्चासौ भोजन काललभ्यश्च तद्व्यतिरेकेणेति, इदमुक्तं भवति - छद्मस्थकाले यदि परं द्रवाहार एव क्षीरादिकः पानकस्थाने अभून्नान्यत्पानकं गृहीतवान्, तत्त्वं बहुश्रुता विदन्तीति । 'वक्ष्यमाणवैनयिकधर्ममूल' मिति ( २३५ - ५ ), वक्ष्यमाणो - योऽस्यामेव पर्षदि मया वक्ष्यते वैनयिको - विनयमूलो धर्म्मस्तस्य मूलं कारणं, मयि हि विनयं कुर्बति मदुक्तं विनयमूलं धर्म्म लोकोऽपि प्रतिपत्स्यत इति भावः । ' अन्ये त्वेकगाथयैवान ये' त्यादि ( २३५ - १२ ), प्रकृतं "केवइयत्ति" द्वारं, तस्य च किल ते कियतो भूभागादपूर्वे समवसरणे अदृष्टपूर्वे वा साधुना आगन्तव्यमित्यमुमर्थं व्याचक्षते, न पुनः कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्यादिकमिति, ततश्च 'सवं च देसविरई' इत्यादिगाथानां समवसरणद्वारेऽन्तर्भावं कृत्वा प्रकृत 'केवइय'त्ति द्वितीय
For Private & Personal Use Only
*444% %%
www.jainelibrary.org