________________
आव० हारिक टीप्पणं
॥२७॥
वाच्यमिति द्विजेन पृष्ट त्रैलोक्यबन्धुराह-'सूक्ष्मोऽसाविति ( २२६-१), इदमुक्तं भवति-अमूर्तत्वात्कर्मसम्बन्धापेक्षया श्रीवीरोपस कथञ्चिन्मूर्त्तत्वेऽपि कर्मपुद्गलानां सूक्ष्मत्वाच्चानतिशयिनामगम्यत्वात् सूक्ष्मोऽसौ, ततश्च सूक्ष्मत्वेनायं न दृश्यते, न पुन- गषु आत्मरसत्त्वेनेति भावः । इत्येवं च तीर्थकृताऽभिहिते सूक्ष्म किमुच्यत इति सामान्येनैव सूक्ष्मस्य स्वरूपमजानानो द्विजः पृच्छति
तास्वरूपप्रश्नः 'किं तत्सूक्ष्ममिति ?', सूक्ष्मस्य स्वरूपमेवाह, न वेद्मि किं तत्सूक्ष्ममुच्यत इति, अत्र भुवनगुरुराह-'यन्न गृह्णीमः इत्यत्र यदनतिशयिना छद्मस्थेन करणैग्रहीतुं न शक्यते तत्सूक्ष्ममिति, अत्र भगवद्विवक्षामजानानो विप्र आह-ननु शब्दगन्धानिला'इति, ननुशब्दः प्रश्नाक्षेपे, ननु यदि यन्न गृह्यते तत्सूक्ष्ममभ्युपगम्यते तदा शब्दानिलगन्धादयश्चक्षुषा न गृह्यन्ते, अत एतेऽपि किं सूक्ष्मा इत्यत्र भगवानाह-'नेति' हन्त नैते शब्दादयः सूक्ष्माः , कुत इत्याह-'एते इन्द्रियग्राह्या इति, एते इन्द्रियग्राह्यत्वान्न सूक्ष्मा इत्यर्थः, एतदुक्तं भवति-नैतन्मया विवक्षितं यदुत यच्चक्षुषा न गृह्यते तत्सूक्ष्म, किन्तु सर्वैरेवेन्द्रियैर्यन्न गृह्यते, हृषीकातिक्रान्तज्ञानपरिच्छेद्यं तत्सूक्ष्ममिह प्रतिपिपादयिषितं, एते तु शब्दगन्धा-2 निला यथाक्रमं श्रोत्रघ्राणस्पर्शनेन्द्रियग्राह्या इति कुत एतेषां सूक्ष्मत्वप्रसङ्ग इति । इन्द्रियग्राह्याः शब्दादय इति यदुक्तं भगवता तदुपजीव्य ब्राह्मण आह-ते न ग्रहणमात्मेति, गृह्णातीति ग्रहणमिति कर्तरि ल्युट्प्रत्ययः, ततश्च ते-तव न
॥२७॥ वस्तूनां ग्राहक आत्मा प्राप्नोति शब्दादीनामिन्द्रियग्राह्यत्वेनाभिधानाद,एतदुक्तं भवति-एते इन्द्रियग्राह्या इति भवता प्रति पादितं, एवं पञ्चेन्द्रियाणि वस्तूनां ग्राहकाण्युक्तानि भवन्ति नात्मेति, अत्र भगवान् सिद्धसाध्यतां मन्यमान आह-'ननु ग्राहयिता स'इति, इदमुक्तं भवति-इन्द्रियाणि ग्राहकाणीत्यभ्युपगम्यत एवास्माभिः, जीवस्तु ग्राहयिता, तथाहि-अर्थ_
Jain Educat
onal
For Privale & Personal Use Only
*rww.jainelibrary.org