________________
आव० हारि० टीप्पण
॥२४॥
तपोऽभ्यासेनात्मानं भावयति, यद्येतावत्तपः कुर्वाणः प्रथममेव न वाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति भावः, श्रीवीरोपसूत्रं च नवपूर्वादिलक्षणं जिनकल्पोचितं तथाऽभ्यस्यति यथा पश्चानुपूर्व्यादिक्रमेणापि परावर्तयितुं शक्नोति, सत्त्वं-परीष- सगांः हाद्यक्षोभ्यत्वं चैतसिकोऽवष्टम्भः, तच्च ‘पढमा उवस्सयंमी त्याद्यनन्तरवक्ष्यमाणगाथोक्तस्थानेषु कायोत्सर्गप्रदानतः प्रथम-16 मेव परीक्षणीयमिति सत्त्वभावना, एकत्वभावना त्वेकाक्येव पर्यटन् यदि विश्रोतसिकादिभिर्न बाध्यते तदा जिनकल्पं प्रतिपद्यते, नान्यथेति, बलभावना तु एकाङ्गुष्ठाद्यवष्टम्भेन चिरस्थायित्वादिरूपः शरीरावष्टम्भस्तत्परीक्षणरूपा, एषा पञ्चधा तुलना जिनकल्पं प्रतिपित्सोः प्रथममेव भवतीति श्लोकार्थः । 'अन्ज अम्ह अंतरंति (२०३-१), अद्यास्माकमुपवासो वर्तत इत्यर्थः । 'चारियत्ति काऊण ओड(उ९)वालगेत्यादि (२०४-१), चारिका हेरिका एत इतिकृत्वाऽधःशिरसोऽवटेकूपे प्रक्षिप्यन्त इति तात्पर्यार्थः, तत्र गोशालकः प्रथममेव क्षिप्तो, भगवाँस्तु नाद्यापीत्यत्रान्तरे मोचिता इति । 'से सोणियं रुचिऊणं (सुसोधितं रंधिऊण वृ०) ति (२०५-४), यस्तव गर्भो मृतः समुत्पद्यते स शोणित एव 'रुचिऊणं ति श्लक्ष्णं चूर्णयित्वा पायसमध्ये प्रक्षिप्य सुतपस्विने देय इति भावार्थः, क्वचित्तु 'सुशोधितंति पाठस्तत्र सुसंस्कृतमिति व्याचक्षते, 'आहाडीयो' (२०५-९), गतागतानि करोति, द्वारं गृहस्य परावर्तितमिति नोपलक्ष्यते । 'खुंखुणका' (२०६-१) नाम घुघुरुकास्ते धावतां पततां भज्यन्ते । 'निउडुक्कडियाए'त्ति (२०६-९), अवनत उन्नतश्च भूत्वा निरीक्षते प्रस्ता-४॥२४॥ वोऽत्र याञ्चाया न वेति । 'अथारियादिटुंतं हियए करेईत्ति (२०७-१), अत्यारिकानाम हासिकास्तेषां दृष्टान्तः, स चायं-इह यथा कस्मिन् ग्रामे कश्चित्कृषीबलो व्रीह्याद्यन्यतरधान्यं लवनकालोचितं प्रभूतं दृष्ट्वा चिन्तयति-यद्येतदहमात्म
Jan Educational
For Private & Personal Use Only