________________
Hot
S ARSOCIENCIA
उत्पन्न मिति । 'पंडुल्लकियमुहीं' (१५१-७), पाण्डुविच्छायमुखीत्यर्थः । इति चक्रिविजयवक्तव्यता । अङ्गारदाहकदृष्टान्तः-किल कश्चिदङ्गारविक्रयी तदर्थमरण्यं ययौ, तृडातॊ गृहे कृच्छेणागतो मूर्च्छितः पतितः स्वमं पश्यति-यथा जलं पिबता मया सर्वेऽपि समुद्रसरित्तडागकूपादिजलाशयाः तिर्यग्लोकवर्त्तिनो निष्ठां नीतास्तथापि पिपासा न शाम्यति, अतोडपरजलाशयान्वेषणप्रवृत्तेन तुच्छजलो जीर्णकूप एको दृष्टः, तत्र च रज्जुबद्धः कुशपूलकः क्षिप्तः स च जलं मुञ्चन् कतिपयजलबिन्दुयुक्तस्तीरदेशमागतः, तजलं स पातुमारब्धः, तत्किं यस्य समुद्रादिजलैः पिपासोच्छित्ति भूत् तस्य तैः कतिपयबिन्दुभिरसौ भविष्यति ?, एवं युष्माभिरपीत्यादि उपनयः सुगम एव । वैतालीयाध्ययनं (प०१५२) सूत्रकृताङ्गद्वितीयाध्ययनमिति । 'श्रावकाणां न सन्ति व्रतानीति (१५७-५), निरुपचरितानि परिपूर्णानि व्रतानि किल महाव्रतान्येवोच्यन्तेऽतस्तदभावाच्छावकाणां व्रतानि न सन्तीत्युच्यते, यानि तु सन्ति तान्याह-'किन्त्वि'त्यादि । 'अनायोस्तु पश्चात्सुलसायाज्ञवल्क्यादिभिः कृता' इति (१५८-४), इह भावार्थः कथानकगम्यः, तच्च संक्षेपादिदं-इह सुलसासुभद्रानामकं परिव्राजिकाद्वयमासीत् , सुलसा अतीवानेकशास्त्रकोविदा, अत्रान्तरे याज्ञवल्क्यनाम्ना परिव्राजकेन यो मां वादे विजयते तस्याहं शिष्य इत्युद्घोषणापूर्वकं पटहो दापितः, सुलसया च जितोऽसौ, तच्छिष्यत्वं चानेन प्रपन्नम् , अतिपरिचये च तयोरकार्यप्रवृत्तिरभूद्, गर्भश्च सुलसायाः समभवद्, विज्ञाते च सुभद्रया निष्ठुरमुपालब्धाऽसौ, प्रच्छन्ने च धृता, अन्यस्मिंश्च वासरे रात्रौ पुत्रं प्रसूता, अविज्ञाता च सुभद्रया पिप्पलवृक्षस्याधस्तात्पुत्रं परित्यज्य परिव्राजकेन सह रजन्यामेव निजगाम, प्रातश्च पदानुसारेणान्वेषयन्त्या सुभद्रया डिम्भो दृष्टः, अयं च बुभुक्षितो विनसातः पिप्पलफलं
2-56059-2-56
Jan Educati
onal
For Private
Personal Use Only
Naw.jainelibrary.org
*