________________
आव ० हारि० टीप्पणं
॥ २१ ॥
मिदमण्डकं ततः इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादोऽभूत्, ततोऽपि च ब्रह्माण्डपुराणं नाम शास्त्रमभूदिति । ततश्रुलहिमवन्तं देवं प्रसाध्य ऋषभकूटे हिमवदधोभागवर्तिनि स्वनाम लिखति, कथमिति चेदुच्यते-उस्सप्पिणी इमीसे तइयाऍ समाऍ पच्छिमे भाए । अहयंसि चक्कवट्टी भरहो इति नामधिजेणं ॥ १ ॥ अहयंसि पढमराया अहयं भरहाहिवो नरवरिंदो । नत्थि महं पडिसत्तू जियं मए भारहं वासं ॥ २ ॥ अनेन गाथाद्वयेन स्वनाम लिखितं । खण्डप्रपातगुहाप्रवेशादिकं तिमि - श्रगुहावद्वक्तव्यं नानात्वं त्वभ्यूह्यमिति, शेषं सुगमं, यावद् 'गङ्गाकूले नव निहितो उवागच्छंति' त्ति ( १५१ - ४ ), निधि - | रत्नाराधनार्थमष्टमभक्तं तत्र करोति, ततो नव निधयः सिध्यन्ति, ते चामी - नेसप्पे १ पंडुयए २ पिंगलए ३ सवरयण ४ महपउमे ५ । काले य ६ महाकाले ७ माणवग ८ महानिही संखे ९ ॥ १ ॥ एषां च स्वरूपमिदं - चक्कट्टपइट्ठाणा अड्डुस्सेहा य नव य विक्खभे । बारस दीहा मंजूससंठिया जण्हवीइ मुहे ॥ १ ॥ व्याख्या - प्रत्येकमष्टसु चक्रेषु प्रतिष्ठिता अष्टौ योजनान्युच्चैस्त्वेन विस्तरेण तु नव योजनानि दैर्येण द्वादश योजनानि मञ्जूषासंस्थिता जान्हवी- गङ्गा तस्या मुखे-तत्समीपे भवन्तीति गाथार्थः ॥ किंमयास्ते निधयो भवन्तीत्युच्यते - वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा । पलिओवमट्टितीणं देवाणं ते उ आवासा ॥ १ ॥ एतेषु च निधिषु नीतिपुस्तकाभरणवस्त्ररत्नहिरण्यप्रहरणातोद्यादयः पदार्थाः समुत्पद्यन्ते, ते च सविस्तराः स्थानाङ्गादिभ्योऽवसेया इति । अस्य च भरतचक्रिण एकेन्द्रियस्वरूपाणि चत्वारि रत्नानि चक्रच्छत्रदण्डखड्गरत्नलक्षणान्यायुधशालायामुत्पन्नानि, चर्मरत्नमणिरत्नकाकिणीरत्नानि तु श्रीगृहे, सेनापतिगृहपतिवर्द्धकिपुरोहितरत्नानि तु पञ्चेन्द्रियस्वरूपाणि चत्वारि विनीतायां नगर्यो, गजतुरगरले तु वैताढ्यमूले, स्त्रीरलं तु विद्याधरेभ्य
Jain Educational
For Private & Personal Use Only
षट्खण्डजयवक्त
व्यता
॥ २१ ॥
www.jainelibrary.org