SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ परस्यां तु चतुर्विंशतिरित्येकोनपञ्चाशन्मण्डलानि करोति, एतानि च किलैकाङ्गेन द्वादश योजनानि प्रकाशयन्ति अन्येनतु, योजनमेवेत्यतो योजनान्तरितानि करोति, कथं चामूनि करोतीति स्थापनातोऽवसेयं, सा चेयंएवं च षट्कोष्ठकपरिकल्पितषड्योजने क्षेत्रे एकस्मिन्पक्षे त्रीणि अन्यत्र तु द्वे मिलितान्यपि पञ्चमण्डलानि भवन्ति, एवमनेन गोमूत्रिकामण्डलकविरचनक्रमेण पञ्चाशद्योजनायामायामपि गुहायामेकोनपञ्चाशन्मण्डलानि बुद्ध्यन्त इति वृद्धाः, तत्त्वं पुनः केवलिनो विदन्ति, विशिष्टाम्नायाभावादिति । तस्याश्च गुहाया मध्ये विस्तरतः क्षेत्रसमासोक्तस्वरूपं सान्वर्थनामक नदीद्वयमस्ति, तत्रैकस्यां शिलादिकमपि प्रक्षिप्तमुन्मजत्येव, कल्लोलैराधूयरतीरे क्षिप्यत इत्यर्थः, तेनासौ उन्मग्नेत्यभिधीयते, अपरस्यां तु तृणादिकमप्यध एव निमजति, तेनेयं निमग्नेत्युच्यते, तयोश्च नद्योश्चक्रवादेशाद् वर्द्धकिः प्रत्येकमनेकस्तम्भशतयुक्तं भित्तिरहितदटितदीर्घपट्टशालाकारं सर्वरत्नमयं समं करोति, तेन चाऽऽचक्रवर्तिराज्यपरिसमाप्तेः सर्वोऽपि लोक उत्तरति, गुहा च तावन्तं कालमपावृतैवास्ते,मण्डलान्यपि तथैव तिष्ठन्ति, उपरते तु चक्रिणि सर्वमुपरमत इति, एवं च तिमिश्रागुहातो निर्गच्छति चक्री, द्वितीयपक्षसत्ककपाटे च स्वत एवोद्घटेते, न पुनः सेनापतिरुद्घाटयति, अत्रान्तरे चिलातैः समं संग्रामे सति नागकुमारविशेषा मेघमुखा नाम देवा अष्टमभक्ताराधनया तैराराधिता वृष्टिं चक्रुः, चक्रिणा च चर्मच्छत्ररत्नसम्पुटमध्ये प्रक्षिप्य सैन्यं वृष्टयुपद्रवाद्रक्षितं, सम्पुटान्तय॑न्धकारापनोदार्थ च मणिरत्नं स्थापयति, केत्याह-छत्तरयणस्स बत्थिभाए' (पडिच्छभाए वृ०)त्ति (१५०-१४ ), छत्रबस्तिभागो नाम छत्रमका ध्यभागवर्ती दण्डप्रक्षेपस्थानरूपस्तत्रेत्यर्थः, वृष्टयुपरमे च ततः सम्पुटाच्चक्रिसैन्यं निर्गच्छदुपलभ्य लोकेनोक्तं-ब्रह्मणा सृष्ट Jain Educate hational For Privale & Personal use only ww.jainelibrary.org
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy