________________
आव० हारि० टीप्पणं
अनार्यवेदवक्तव्यता
॥२२॥
मुखे पतितमास्वादितवानिति पिप्पलाद इति नाम तस्य कृतं, वृद्धिं नीतः, पाठितश्चासौ सुभद्रया, वाग्ग्मी चातीव जातः, श्रुतमातृपितृसम्बन्धश्च मातरि पितरि च प्रद्वेषमापन्नोऽनार्यान् वेदाँश्चकार, तेषु चेदं प्ररूपितवान्-यदुत राजभिरशिवादिशान्तिनिमित्तं स्वर्गावाप्तये च पशुतुरगगजमानुषादिभिर्यागः करणीय इति, तस्य च 'अलिएहि य वसुराया' इत्यादिकथानकप्रसिद्धः पर्वतको नाम मित्रमभूत्, तेन चोक्तं-अजैर्यष्टव्यमिति वेदेऽपि प्रतिपादितमेवेति शोभनं त्वया प्ररूपितमिति । | अपरं च मधुनामा राजपुत्रः कुत्रचित् स्वयंवरमण्डपमिलितसमस्तराजवर्गेणापमानितस्तेषु च प्रद्वेषमापन्नो मृत्वा व्यन्तरे
पूत्पन्नः, स चाचिन्तयद्-भव्यमिदं परिव्राजकसुतेन परिकल्पितं, यद्येतद्राजानोऽनुतिष्ठन्ति तदा सर्वेऽपि अमी नरक | यान्तीति मम वैरसिद्धिर्भवतीति विचिन्त्य च तमुवाच-प्ररूपय त्वमिदं लोके साहाय्यमहं करिष्यामीत्यभिधाय सर्वत्र रोगानुत्पादितवान् , परिव्राजकेन च राजानोऽभिहिताः-यदि पश्वादिभिर्यज्ञं कुरुत तदा सर्वमिदमुपशाम्यति, तेऽपि च पश्चादयो यज्ञे निहता दिवं यास्यन्ति, नात्र कश्चिद्दोष इति, राजानोऽपि च तथैवानुष्ठितवन्तः, त्रिदिवगमनप्रतीतिनिमित्तं यज्ञनिहतपश्वादीन्विमाने समारोप्य नभसा गच्छतो मधुदेवो जनस्य दर्शयति रोगाँश्च सर्वानुपशमयतीति लोकस्यात्रार्थे स्थिरता | बभूव, ततश्च पिप्पलादेनेत्थं प्ररूपयता गच्छता कालेन राज्ञः सकाशादानीय मोक्षमेती गमिष्यत इति व्याजेन मातापितरौ यज्ञे हुतौ, तदर्थत्वादेव सर्षारम्भस्येति, तत्कालादारभ्यानार्यवेदप्रवृत्तिरिति संक्षेपो, व्यासार्थिना तु हरिवंशोऽन्वेषणीय इति ॥ आसग्गीवे १ तारए २ मेरए ३ महुकेटवे ४ निसुंभे अ५ । बलि ६ पहाए ७ तह रामणे य ८ नवमे जरासिंधू ९॥ (१५९), अत्र चतुर्थः वासुदेवो मधुरेव, कैटभस्तु तद्भाता, कैटभेनोपलक्षितो मधुर्मधुकैटभ इति द्रष्टव्यमिति ।
॥२२॥
Jain Educati
For Private & Personal use only